मालूरु गोशालायां गोपूजा दीपोत्सवश्च – पुण्यकार्ये भागिनः गोप्रेमिणः

उपासना गौः वार्ता

मालूरु – मालूरुजनपदस्य गङ्गापुरस्थे श्रीराघवेन्द्र-गो-आश्रमे नवेम्बरमासस्य अष्टमे दिनाङ्के दीपावल्यङ्गभूता गोपूजा सम्पन्ना अभवत् । वेदमूर्तेः गोपालकृष्णभट्टस्य मार्गदर्शने गो-आश्रमसेवासमितेः कोशाध्यक्षः सर्वसदस्यानां प्रतिनिधिर्भूत्वा पूजां समार्पयत् ।

 

तदनु दीपावल्याः प्रकाशं समग्रगोशालायां व्यापयितुं गोशालां परितः दीपान् प्रज्वाल्य दीपोत्सवश्च समाचरितः ।

 

अस्मिन् अवसरे एव क्षेत्रदेवं श्रीसिद्धाञ्जनेयस्वामिनपि विशेषाभिषेकैः समपूजयन् ।

 

गोपूजाकार्ये कार्त्तिकदीपोत्सवे च श्रीरामचन्द्रापुरमठस्य माध्यमकार्यदर्शी रामचन्द्रः अज्जकान, निर्वहणासमितेः अध्यक्षः मुरलीकृष्णः, कार्यदर्शी मञ्जुनाथः, शिवकुमारः, अरविन्दशर्मा, कमलाकरः, लक्ष्मीशः चेत्यादयः सदस्याः अपि भागिनः आसन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *