श्रीमठस्य शिष्याय नेपथ्यध्वनिदानकलाकाराय प्रदीपबडेक्किलमहोदयाय `सृष्टिकलोपासकः’ इति प्रशस्तिः

कला साहित्यं च वार्ता

बेङ्गलूरु – जयनगरस्य जे. एस्. एस्. सभाङ्गणे शनिवासरे प्रवृत्ते सृष्टिकलाविद्यालयस्य सङ्गीतनृत्योत्सवसमारम्भे चलच्चित्रलघुचित्रपटनटाय दूरदर्शननिरूपकाय लेखकाय श्रीरामचन्द्रापुरमठस्य बह्वीनां प्रस्तुतीनां ध्वनिदानकलाकाराय प्रदीपबडेक्किलमहोदयाय `सृष्टिकलोपासक:’ इति प्रशस्तेः प्रदानं कृतम् ।

 

लघुचित्रपटस्य बहुभ्यः जनप्रियकार्यक्रमेभ्यः दत्तनेपथ्यध्वनिरेषः मेट्रोरेलयानस्य उद्घोषणानामपि कण्ठध्वनिं दत्तवानस्ति । श्रीमठस्य शिष्यः असौ प्रशस्तिभागभूदिति विज्ञाय श्रीसंस्थानाधीश्वराः श्रीमठस्य शिष्याश्च च नितान्तमानन्दं प्राकटयन् ।

 

अस्मिन्नेव समारोहे कवये दोड्डरङ्गेगौडमहोदयाय `सृष्टिकलाभूषणः’ इति प्रशस्तेः प्रदानमकारि । समारोहे उद्योगपतिः लीलाशङ्करः, डा. एं. श्यामसुन्दरः, सृष्टिकलाविद्यालयस्य गौरवाध्यक्षः श्रीकान्तः एं. जि., सृष्टिसंस्थासंस्थापकाध्यक्षः छायापतिः कञ्चिबैल् चेत्यादयः गण्याः समुपस्थिताः आसन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *