शनिवासरे श्रीरामाश्रमे `रामपदम्’ सत्सङ्गः

कला साहित्यं च वार्ता

बेङ्गलूरु – एकादश्यां हरिदिने श्रीसंस्थानाधीश्वरैः प्रचाल्यमानं रामपद्यानां गानव्याख्यानानुसन्धानात्मकं रामपदम् इत्याख्यः सहजसत्सङ्गकार्यक्रमः शनिवासरे (०३-११-२०१८) सायङ्काले षड्वादनतः अष्टवादनपर्यन्तं प्रचलिष्यति ।

गिरिनगरस्य श्रीरामाश्रमे यथापूर्वं प्रचाल्यमाने अस्मिन् रामपदकार्यक्रमे श्रीसंस्थानाधीश्वराः रामपदे समुपविश्य श्रीरामसम्बन्धीनि पद्यानि गायन्तः श्रीरामचन्द्रप्रभोः गुणविशेषान् परिचाययन्तः सत्सङ्गसभां प्रवर्तयिष्यन्ति ।

अस्मिन् रामपदकार्यक्रमे हिन्दूस्थानीसङ्गीतक्षेत्रे उदयोन्मुखः गायनः सिद्धार्थः बेल्मण्णु भागी भविष्यति । कलारामविभागेन आयोज्यमानेऽस्मिन् विशिष्टे कार्यक्रमे भवन्तः सर्वे भागमूढ्वा श्रीरामचन्द्रस्य कृपाभाजः भवन्तु इति कलारामविभागस्य कार्यदर्शिनी श्रीमती अनूराधा पार्वती प्रार्थितवती ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *