जीवनाभिरक्षा क्षेत्रे उद्योगावसरस्य व्यपदेशविनिमय कार्यक्रमः श्रीभारतीमहविद्यालये

वार्ता

श्रीमठस्य मङ्गलूरुनगरस्थितायां श्रीभारतीसंस्थायाम् अयं कार्यक्रमः प्राचलत् । अस्मिन् कार्यक्रमे विषयज्ञरूपेण एल्.ऐ.सि. शाखाज्येस्ष्ठाधिकारी कुम्भाशिरविराजवर्यः मार्गदर्शनवचनावसरे “विद्याप्रोत्साहधनप्राप्तयेऽपि अवसरः विपुलोऽस्ति | छात्राः अस्य लाभमवाप्नुयुः” इत्यभणत्। अन्यश्च प्रशिक्षकः एल्.ऐ.सि.संवर्धनाधिकारी शुभकरवर्यः मार्गदर्शनं व्यदधत् “छात्रा यदिच्छन्ति तत् सम्पादयितुं यथेष्ठावसरः क्षेत्रेऽस्मिन् विद्यते। अनेन जीवनाभिरक्षामाध्यमेन भाविजीवनं सत्पथे नेतुं शक्यते इत्यब्रवीत् ।

 

विषयप्रवीणेन आगतेन उदयशङ्करवर्येन एल्.ऐ.सि. अधिकारिणा निगदितं यत्- “भारतीयजीवविमानिगमः इतीयं संस्था भारतसर्वकरस्य अधीने विद्यमाना विश्वस्य अतिबृहती संस्था अस्ति । अतोऽत्र सुरक्षितः उद्योगावसरः विपुलः” इति ।
श्रीभारतीमहाविद्यालयस्य प्राचार्यः डा। आलङ्गारु ईश्वरप्रसादवर्यः, प्राध्यापकाश्च उपस्थिताः । उपन्यासकः सूर्यनारायणमहोदयः सभापूजामकुरुत। उपन्यासकेन अशोकमहोदयेन कृतज्ञता समर्पिता ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *