श्रीरामाश्रमे वैभवोपेत-सीतारामकल्याणोत्सवः ।

बेङ्गळूरु :  विष्णुगुप्त-विश्वविद्यापीठ-स्थापन-सङ्कल्पसिद्ध्यर्थं जगद्गुरु-शङ्कराचार्य-श्रीश्रीराघवेश्वर-भारती-महास्वामिभिः प्रचाल्यमान-धारा-रामयण-प्रवचनाङ्गत्वेन जुलै मासस्य १० दिनाङ्के बुधवासरे गिरिनगरस्थ-श्रीरामाश्रमे वैभवोपेत-सीतारामकल्याणोत्सवः आयोजयिष्यते । सीतारामकल्याणोत्सवेन समं  बालकाण्डस्य प्रवचनं समाप्तिमेष्यति । स्वामिनः अस्य मासस्य १५ दिनाङ्के अयोध्याकाण्डस्य प्रवचनम् आरभन्ते । १० दिनाङ्के सायं ६ वादने कल्याणोत्सवस्य पूर्वविधीनाम् आचरणपुरस्सरं ७ वादने मुहूर्तवाचनम् एवं मङ्गलाष्टकम् इत्येवम् अनेके धार्मिककार्यकलापाः अयोज्यन्ते । शुभावसरेऽस्मिन् अमृतवर्षिणीसङ्गीत-विद्यालयस्य विदुषी जयलक्ष्मीः एवं तद्विद्यार्थिन्यश्च सीताकल्याणगीतं प्रस्तुवन्ति । […]

Continue Reading

श्रीसंस्थानाधीश्वराणां विचारणाप्रक्रिया संस्तम्भिता – मिथ्यारोपेषु तथ्यं नास्तीति वादस्य पुष्टिः

पुत्तूरुवासिनः श्यामशास्त्रिणः असहजमृत्युप्रकरणे श्रीरामचन्द्रापुरमठस्य जगद्गुरुशङ्कराचार्य – श्रीराघवेश्वरभारतीमहास्वामिनः आलक्ष्य कृतानामारोपाणां विचारणाप्रक्रियाम् अनुवर्तयितुं निर्बन्ध्य कर्नाटकराज्योच्चन्यायालयः संस्तम्भनाज्ञां प्राकटयत् । श्यामशास्त्रिणः अस्वाभाविकमरणप्रकरणे विना कारणं जगद्गुरुशङ्कराचार्य – श्रीराघवेश्वरभारतीमहास्वामिनः सङ्क्लेशयितुं बहुधा प्रयत्नः वरीवर्तते । अभिलेखादीनाम् अभावेऽपि मिथ्यारोपानारोप्य तान् अभियोक्तव्यान् कर्तुं प्रयासः अकारि । अमुम् अभियोगक्रमम् आक्षेप्य कर्नाटकराज्यस्य उच्चन्यायालये आवेदना पञ्जीकृता आसीत् । अस्याः आवेदनायाः युक्तातायुक्ततयोः विचारणावसरे न्यायपीठम् अस्मिन् प्रकरणे श्रीसंस्थानाधीश्वराणां विचारणाप्रक्रिया […]

Continue Reading

अखिलहव्यकमहासभा रि. बेङ्गलूरु इति संस्थायाः नेतृत्वे डिसेम्बरमासे सम्पत्स्यमानस्य अमृतमहोत्सवस्य द्वितीयविश्वहव्यकसम्मेलनस्य च सदवसरे करकौशलवस्तूनां प्रदर्शनं स्पर्धा च आयोजयिष्यते । आसक्ताः भागं वोढुमर्हन्ति ।

Continue Reading

श्रीरामाश्रमे सहस्रदीपोत्सवः

  गिरिनगरे शोभमाने श्रीरामाश्रमे श्रीगुरुदेवतानां कामधेनोः च दिव्यसान्निध्ये चम्पाषष्ठीपर्वणः सायं सहस्रदीपोत्सवपूर्वकं सपरिवारश्रीरामदेवस्य राजोपचारपूजा समर्पयिष्यते । कालः – १३.१२.२०१८, गुरुवासरे । समयः – सायं सप्तवादने । समेषां श्रद्धालूनां हार्दं स्वागतम् ।

Continue Reading

प्रकटनम्

भवन्तः गोप्रेमिणो वा ? भवतामायुः १८ तः २५ वर्षाणां मध्ये अस्ति वा ? गोविषयकजनजागरणे आसक्ताः वा ? वाग्मिनः भवितुमिच्छन्ति वा ? तर्हि कार्यशालेयं भवादृशानां कृते एव भविष्यति । भारतीयगोपरिवारस्य कर्नाटकघटकस्य गोमहती इति विभागेन अयं कार्यक्रमः आयोजयिष्यते । डिसेम्बरमासस्य द्वितीयदिनाङ्कतः कोलारमण्डलस्य मालूरुग्रामस्थिते श्रीराघवेन्द्रगो-आश्रमे गोमहतीविभागेन अयं कार्यागारः सञ्चालयिष्यते । अत्र गोसम्बन्धिविचाराणां जागरणस्य प्रभाविभाषणस्य कलायाः च प्रशिक्षा दीयते […]

Continue Reading