श्रीक्षेत्रे गोकर्णे महारथोत्सवः

श्रीगोकर्णः

प्रतिवर्षमिव अस्मिन्नपि वर्षे श्रीक्षेत्रे गोकर्णे विराजमानस्य श्रीमहाबलेश्वरदेवस्य श्रीमन्महारथोत्सवकार्यक्रमः महता वैभवेन सुसम्पन्नः। श्रीमज्जगद्गुरुशङ्कराचार्याः श्रीराघवेश्वरभारतीमहास्वामिनः उत्सवमूर्त्यै धार्मिकविध्युक्तक्रमेण सपर्यां समर्प्य रथोत्सवारम्भमकुर्वन् ।

 

अद्य शान्तिघटाद्यभिषेकः, रथसम्प्रोक्षणं, दण्डबलिः, भूतबलिः, ग्रामबलिः प्रभृतयः धार्मिकविधयः उपाधिमतां नेतृत्वे प्रावर्तन्त।

 

तदनु अपराह्णे २.३० वादने श्रीमन्महारथोत्सवः सवैभवं सुसम्पन्नः। उत्तरकर्णाटकम्, बेङ्गलूरु, मङ्गलूरु, महाराष्ट्रम्, आन्ध्रप्रदेशः इत्यादिभ्यः राज्येभ्यः समायाताः भक्ताः रथोत्सवे भागमूढ्वा कृतकृत्याः अभवन्। महारथस्य कर्षणसमये भक्तजनानाम् ‘हर हर महादेव!’ इत्युद्घोषणं गगने प्रतिध्वनितम्।

 

फेब्रवरी २८ दिनाङ्के समारब्धः नवाहमहाशिवरात्र्युत्सवः ८/३/२०१९ दिनाङ्के चूर्णोत्सवः, जलयानोत्सवः, महापूर्णाहुतिः, अवभृतम् इत्यादिकर्मद्वारा सम्पन्नतामयात्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *