अम्बागिर्यां शरन्नवरात्रोत्सवः नूतनयागशालायाः उद्घाटनोत्सवश्च सम्पन्नः

उपासना वार्ता

शिरसि – प्रतिवर्षमिव अस्मिन्नपि वर्षे आश्वयुजमासस्य शुक्लप्रतिपत्तः नवमीपर्यन्तं तन्नाम अक्टोबरमासस्य दशमदिनाङ्कात् सप्तदशदिनाङ्कपर्यन्तं श्रीसंस्थानाधीश्वराणां मार्गदर्शनानुसारं शिरसिनगरस्थे अम्बागिरिकालिकामठे शरन्नवरात्रोत्सवः वैभवेन सम्पन्नः ।

तदङ्गत्वेन प्रतिदिनं महिलाभिः कुङ्कुमार्चनं, पुरुषैः गायत्रीजपः, देविपारायणमहापूजाः, दशम्यां सीमोल्लङ्घनम्, अष्टावधानसेवादयश्च महामङ्गलनीराजनपुरस्सरं श्रद्धया भक्त्या च समाचरिताः ।

तथैव विंशे दिनाङ्के धार्मिकविधिविधानैः गोप्रवेशेन च नूतनयागशालायाः प्रारम्भोत्सवः सम्पन्नः । परेsहनि द्वादश्यां नवचण्डीयागः कट्टे शङ्करभट्टस्य आध्वर्ये साङ्गमनुष्ठितः ।

सन्दर्भेsस्मिन् विद्याविभागस्य कार्यदर्शी प्रमोदपण्डितः, सिद्धापुरमण्डलस्य सतीशहेगडे, रमानन्दः तलवाट, वीणाभट्टः, अम्बागिरिवलयस्य दिग्दर्शकः एल्.आर्. भट्टः, अध्यक्षः वि.एम्. हेगडे आल्मने, टि.जि. हेगडे, डि.ए. हेगडे, लक्ष्मणशानभागः, मातृप्रधाना सावित्री हेगडे, इन्दिरा शानभागः, सरस्वती हेगडे चेत्यादयः पदाधिकारिणः, ग्रामण्यः, शिष्याः, शताधिकाः सद्भक्ताश्च भागमूढ्वा श्रीदेव्याः प्रसादं स्वीकृत्य कृतार्थाः अभवन् ।

वार्ताहरः – लक्ष्मणशानभाग

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *