उत्थानद्वादश्यां श्रीकरार्चितश्रीरामदेवाय १२२ के.जि. परिमितस्य गोधूमस्य पायसनैवेद्यम्

उपासना वार्ता

बेङ्गलूरु – नवेम्बरमासस्य २० तमे दिनाङ्के उत्थानद्वादश्याः पुण्यपर्वणि श्रीसंस्थानाधीश्वराणां सङ्कल्पानुसारेण सपरिवाराय श्रीकरार्चितश्रीरामदेवाय अखण्डगोधूमपायसनैवेद्यं समर्पितम् |

 

प्रातःकाले श्रीसंस्थानाधीश्वराणां श्रीरामदेवपूजायाः प्रागेव अखण्डगोधूमानां सुगन्धिपायसं सिद्धमभवत् | एकः द्रोणः नाम षोडशशरावपारिमाणम् | तादृशम् अष्टद्रोणपरिमाणम् – १२२.८५० के.जि. अखण्डगोधूमपायसनैवेद्यं श्रीरामदेवाय समर्पितम् |

श्रीसंस्थानाधीश्वराणां करकमलाभ्यां श्रीरामदेवाय निवेदितं पायसप्रसादं श्रीमठस्य भक्तेभ्यः, बेङ्गलूरुमहानगरस्य विजयनगरे विद्यमानस्य श्रीभारतीविद्यालयस्य छात्रैभ्यः, विविधविद्यालछात्रेभ्यः, गिरिनगरस्थस्य श्रीमहागणपतिदेवालयस्य भक्तेभ्यः, बनशङ्करीदेवालयस्य भक्तेभ्यश्चेति आहृत्य ४००० जनेभ्यः व्यतरन् कार्यकर्तारः ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *