नाट्यतरङ्गे अष्टमसंस्कृतिसप्ताह:

कला साहित्यं च

नाट्यतरङ्ग: स्वस्य अष्टमसंस्कृतिसप्ताहस्य सिद्धतां कुर्वन्नस्ति । प्रतिवर्षम् उत्तमोत्तमतया कार्यक्रमम् आयोजनीयमिति तेषां प्रयत्न: । सप्ताहे$स्मिन् सङ्गीतं, विविधप्रकारकनृत्यानि, यक्षगानं, वाद्यसङ्गीतादय: कार्यक्रमा: सम्पत्स्यन्ते । सप्ताहेस्मिन् अन्यान्य राज्येभ्य: चत्वारिंशदधिका: कलाविद:, चत्वारिंशदधिकक्षेत्रेषु कृतभूरिपरिश्रमा: अतिथय: आगमिष्यन्ति । कलाक्षेत्रस्य साधकानां सम्माननम्, उदयोन्मुखकलाविदां प्रोत्साहनम्, वृद्धानां सम्माननञ्च अत्र आयोजितमस्ति । कार्यक्रमे$स्मिन् भागं वोढ्वा अस्मान् तोषयन्तु, कार्यक्रमं सुसम्पन्नं कुर्वन्तु इति सङ्घटकानाम् आवेदनम्।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *