बजक्कूड्लु गोशालायाः गोभ्यः तृणप्रेषणाय अर्घ्यसेवा

गौः

गुम्पेपर्वतस्य श्रीशङ्करध्यानमन्दिरपरिसरे तृणकर्तनकार्यं ०९.१२.२०१८ तमे दिनाङ्के सम्पन्नम् ।

 

गुम्पेवलयस्य अध्यक्षः अम्मङ्कल्लु रामभट्टः गोमात्रे ग्रोग्रासदानेन कार्यस्य प्रारम्भमकरोत् । कामदुघायोजनायाः कार्यदर्शी डा. वै.वि. कृष्णमूर्तिः ध्वजारोहणम् अकरोत् । सभासदः गुरुं गां च स्तुतवन्तः ।

 

मुल्लेरियामण्डलस्य विद्यार्थिवाहिनीप्रधानः केशवप्रसादः एडक्कान, वलयस्य कार्यदर्शी बजप्पे सुब्रह्मण्यभट्टः च उपस्थिताः ।

 

महामण्डलस्य उल्लेखप्रधानः बल्लमूले गोविन्दभट्टः, श्यामभट्टः बेर्कडवु, मुल्लेरियामण्डलस्य कार्यदर्शी बालसुब्रह्मण्यभट्टः सर्पमले, नवनीतपनेयाल, वै. के. गोविन्दभट्टः, बालसुब्रह्मण्यभट्टः परप्पे, गीतालक्ष्मीः, सुब्रह्मण्यभट्टः गुब्बलड्क, विविधवलयानां पदाधिकारिणः गोप्रेमिणः च भागमगृह्णन् ।

 

१० तृणकर्तनयन्त्राणि १० विद्यार्थिनः ११५ कार्यकर्तारः कार्येsस्मिन् भागग्राहिणः आसन् ।

 

नूजि वेङ्कटेश्वरभट्टस्य गृहे उपाहारस्य भोजनस्य च व्यवस्था कृता आसीत् । पुत्तूरुनगरस्थया सप्तफुड् इति संस्थया रोटिकाभोजानादिव्यावस्था कृता अभवत् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *