श्रीसंस्थानाधीश्वराणां विचारणाप्रक्रिया संस्तम्भिता – मिथ्यारोपेषु तथ्यं नास्तीति वादस्य पुष्टिः

प्रकटनम्

पुत्तूरुवासिनः श्यामशास्त्रिणः असहजमृत्युप्रकरणे श्रीरामचन्द्रापुरमठस्य जगद्गुरुशङ्कराचार्य – श्रीराघवेश्वरभारतीमहास्वामिनः आलक्ष्य कृतानामारोपाणां विचारणाप्रक्रियाम् अनुवर्तयितुं निर्बन्ध्य कर्नाटकराज्योच्चन्यायालयः संस्तम्भनाज्ञां प्राकटयत् ।

श्यामशास्त्रिणः अस्वाभाविकमरणप्रकरणे विना कारणं जगद्गुरुशङ्कराचार्य – श्रीराघवेश्वरभारतीमहास्वामिनः सङ्क्लेशयितुं बहुधा प्रयत्नः वरीवर्तते । अभिलेखादीनाम् अभावेऽपि मिथ्यारोपानारोप्य तान् अभियोक्तव्यान् कर्तुं प्रयासः अकारि । अमुम् अभियोगक्रमम् आक्षेप्य कर्नाटकराज्यस्य उच्चन्यायालये आवेदना पञ्जीकृता आसीत् । अस्याः आवेदनायाः युक्तातायुक्ततयोः विचारणावसरे न्यायपीठम् अस्मिन् प्रकरणे श्रीसंस्थानाधीश्वराणां विचारणाप्रक्रिया संस्तम्भनीया इत्यभिप्रेत्य संस्तम्भनाज्ञां प्राकाशयत् ।

 

श्रीसंस्थानाधीश्वरैः प्रस्तुता लेखपत्रावेदना नोररीकरणीया, विचारणाप्रक्रियापि न संस्तम्भनीया इति सर्वकारस्य अपरमहाधिवक्तुः तीव्रतरं प्रतिवादं श्रुत्वापि न्यायपीठेन श्रीमठस्य वादः पुरस्कृतः । न्यायालयस्य आदेशेनानेन श्रीसंस्थानाधीश्वरान् आलक्ष्य कृतेषु मिथ्यारोपेषु तथ्यं नास्तीति वादस्य पुष्टिः क्रियते ।

Author Details


Srimukha

1 thought on “श्रीसंस्थानाधीश्वराणां विचारणाप्रक्रिया संस्तम्भिता – मिथ्यारोपेषु तथ्यं नास्तीति वादस्य पुष्टिः

  1. ಧರ್ಮೋರಕ್ಷತಿ ರಕ್ಷಿತಃ! ಸತ್ಯಮೇವ ಜಯತೇ! ಗಾವಃ ರಕ್ಷತಿ ರಕ್ಷಿತಃ

Leave a Reply

Your email address will not be published. Required fields are marked *