जेड्ल गोशालायां दीपावली – गोपूजा कुङ्कुमार्चनञ्च

उपासना गौः वार्ता

सुल्य – सुल्यहव्यकवलयेन सम्पाजेग्रामस्य जेड्लपरिसरे स्थितायां गोशालायां नवेम्बरमासस्य नवमदिनाङ्के श्रद्धया भक्त्या च गोपूजनं समाचरितम् ।

 

गोपूजावसरे मातरः कुङ्कुमार्चनं कृतवत्यः। वैदिकविभागद्वारा ११४ तमं वेदवाहिनीपारायणमपि प्रवृत्तम् । एत्तुकल्लु नारायणभट्टः अरम्बूरु कृष्णभट्टः विश्वकीर्तिजोयिसमहोदयः वेङ्कटेशशास्त्री चेत्येते वैदिकवरेण्याः वेदपारायणम् अन्यधार्मिकविधीन् च प्रावर्तयन् ।

 

वलयस्य अध्यक्षः सुब्रह्मण्यभट्टः, उपाध्यक्षः विष्णुकिरणभट्टः, कोशाधिकारी ईश्वरभट्टः, कुम्बेत्तिनवन शिवरामभट्टः, उबरड्क सुधीरभट्टः च उपस्थिताः आसन् ।

 

सन्दर्भेऽस्मिन् प्रवृत्तान् कुङ्कुमार्चनसहितान् धार्मिकविधीन् वीक्ष्य सन्तुष्टान्तरङ्गः श्रीमान् वेङ्कटरमणय्यवर्यः आनन्दाश्रूण्यमुञ्चत् येनेयं गोशाला प्रागेव मठाय समर्पिता आसीत् । `कुङ्कुमार्चनेन वेदपारायणेन च दशवत्सरानन्तरं गृहमिदं पुनः जीवचैतन्यमवाप्नोत्’ इति तेन ससन्तोषम् अभिहितम् । इत्थं च दीपावल्याः पुण्यावसरे प्रवृत्ता गोपूजा सर्वेषां भक्तिभावस्य साक्षिभूताभूत् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *