श्रीरामचन्द्रापुरमठेन अनन्तकुमारस्य कुटुम्बं प्रति सान्त्वनापत्रम्

वार्ता

भारतसर्वकारसचिवस्य अनन्तकुमारस्य अकालिकमरणस्य शोकसन्दर्भे सन्तापं संसूच्य श्रीरामचन्द्रापुरमठेन तेजस्विनीमहोदयां प्रति सान्त्वनापत्रं विलिखितं वर्तते । श्रीकरार्चितश्रीरामादिदेवतानुग्रहेण तद्वियोगवेदनाविस्मारिकां शक्तिं कुटुम्बः प्राप्नुयादिति आशास्य सान्त्वनापत्रं लिखितम् ।

 

उत्तमः राजनीतिज्ञः अनन्तकुमारः बाल्ये एव राष्ट्रभक्तिकार्ये आत्मानं नियोज्य नैकानि उत्कृष्टकार्याणि कृतवानासीत् । सत्कार्याणि कर्तुमितोऽप्यधिकतरकालं तेन जीवनीयमासीत् । परं तस्य अकालिकं मरणं कुटुम्बस्य कृते वेदनाजनको विचारः ।

 

जन्ममृत्यू नियत्यधीनौ इति विचिन्त्य तद्वियोगजवेदनया कुटुम्बः विमुक्तः भूयात् । श्रीकरार्चितरामादिदेवतानुग्रहेण पारिवारिकजनाः दुःखविस्मारकस्थैर्यसम्पन्नाः भूयासुः । श्रीकरार्चितदेवतानां महती कृपा तस्य परिवारस्य श्रेयः कल्पयतु इति जगद्गुरुशङ्कराचार्यश्रीराघवेश्वरभारतीमहास्वामिभिः आशंसितमिति पत्रे उल्लिखितं विद्यते ।

 

अनन्तकुमारस्य पारिवारिकेभ्यः श्रीमठस्य प्रशासनानीकेन सान्त्वोक्तिः

 

श्रीमठस्य प्राशासनिकमुख्याः अकालिकमरणमवाप्तवतः अनन्तकुमारस्य कुटुम्बसदस्यान् ह्यः रात्रौ सन्दृश्य तान् समाश्वास्य श्रीमठेन लिखितं सान्त्वनापत्रं दत्तवन्तः । हव्यकमहामण्डलस्य अध्यक्षा श्रीमती ईश्वरी बेर्कडवु, श्रीनिर्देशकार्यदर्शी जयरामः कोरिक्कार, कामदुघाविभागस्य मञ्जप्प गुण्डि, श्रीमती गीता मञ्जप्प चेत्यादयः श्रीसंस्थानाधीश्वराणां सन्देशं विवृत्य अनन्तकुमारस्य भार्यायै तेजस्विनीमहोदयायै श्रीमठस्य सान्त्वनापत्रं प्रदाय सन्तापं समसूचयन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *