श्रीरामचन्द्रापुरमठसंरक्षणासमिते: विज्ञापना

वार्ता

समूहप्रार्थना

श्रीमठसंरक्षणे कटिबद्धाः गुरुबन्धवः !

श्रीमठस्य संरक्षणाय समस्तसमाजः श्रीरामचन्द्रापुरमठसंरक्षणासमितिरूपेण एकीभूय कार्यं चिकीर्षति इति सर्वविदितम् । अग्रिमेषु दिनेषु समितिपरतया समायोज्यमानेषु श्रीमठसंरक्षणासत्कार्येषु भगवदनुग्रहं प्राप्तुं देवसान्निध्ये सामूहिकप्रार्थना विधेया वर्तते ।

अतः १०-११-२०१८ तमे दिने शनिवासरे श्रीमठस्य शिष्यव्याप्तेः सर्वेषु घटकेषु श्रीरामचन्द्रापुरमठसंरक्षणाप्रार्थनायाः समर्पणाय योजना कृता । घटकान्तर्गताः शिष्यास्सर्वे समाजे विद्यमानाः श्रीमठाभिमानिनश्च मिलित्वा कार्यमिदं सम्पादयन्तु इति विज्ञापयामः । इयं सामूहिकप्रार्थना अस्माकम् अग्रिमसङ्ग्रामाय विशेषशक्तिम् आपूरयिष्यति ।

वन्दनानि
पदाधिकारिण:
श्रीरामचन्द्रापुरमठसंरक्षणासमिति:

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *