श्रीराममन्दिरनिर्माणविषये श्रीसंस्थानाधीश्वराणाम् अभिप्रायः कः ? वीक्षन्तां श्वः रात्रौ दिग्विजयवार्तावाहिन्याम्

वार्ता

बेङ्गलूरु – श्वः ११.११.२०१८ दिनाङ्के दिग्विजयवाहिन्यां श्रीसंस्थानाधीश्वराणां विशेषधार्मिकसन्दर्शनं प्रसार्यते । रात्रौ ०९.२७ समये दिग्विजयवाहिन्यां श्रीसंस्थानाधीश्वराणां यच्च सन्दर्शनं प्रसार्यते तस्मिन् ते नाना विचारान् अधिकृत्य नैजम् अभिप्रायं प्रकटीकृतवन्तः ।

प्रामुख्येन देशे सर्वत्र चर्चाविषयभूतं राममन्दिरनिर्माणं देवालयानां सर्वकारीयप्रशासनम् इत्यादीन् विचारान् अभिलक्ष्य श्रीसंस्थानाधीश्वराः मुक्तकण्ठं भाषितवन्तः सन्ति तस्मिन् सन्दर्शने ।

दिग्विजयवार्तावाहिन्याः सन्दर्शनेन साकं राज्यस्य जनप्रियदिनपत्रिकायां विजयवाण्याम् अस्यैव सन्दर्शनस्य प्रतिवेदनमपि प्रसार्यते । सर्वैः भक्तैः अभिमानिभिश्च सन्दर्शनमिदं वीक्ष्य एतादृशसत्कार्याणां समर्थनं प्रदातव्यम् ।

 

Author Details


Srimukha

1 thought on “श्रीराममन्दिरनिर्माणविषये श्रीसंस्थानाधीश्वराणाम् अभिप्रायः कः ? वीक्षन्तां श्वः रात्रौ दिग्विजयवार्तावाहिन्याम्

Leave a Reply

Your email address will not be published. Required fields are marked *