सीताकल्याणवैभोगमे…!

वैभोगेन देदीप्यमानं विवाहमण्डपं, पुरोधसां मन्त्रघोषः, पत्नीभिः सह विराजमनौ दशरथसीरध्वजौ, रामाश्रमे सीतारामपरिणयमहित्सवस्य सुकृतं मनोहरं दृश्यम्| जनाकीर्णत्वात् सभाङ्गणे ईषदपि स्थानावकाशः नासीत्| रामभक्ताः तद्दर्शनेन धन्यतामन्वभूवन्|   सत्यम्, परमपूज्याः श्रीश्रीराघवेश्वरभारतीस्वामिभिः विगतेभ्यः २० दिनेभ्यः धारारामायणनाम्ना रामायणकथनं क्रियमाणमस्तीति विदितमेव| अस्यां मालिकायां अद्य सीतारामयोः परिणयप्रसङ्गः प्रस्तुतः| तदङ्गत्वेन कल्याणोत्सवकार्यक्रमश्च सुसम्पन्नः| प्रतिदिनवद् श्रीश्रीराघवेश्वरभारतीस्वामिनः श्रीरामस्य विवाहोत्तरकथानकमप्यकथयन्|   अमृतवर्षिणीसङ्गीतपाठशालायाः शिक्षकाः छात्राश्च कल्याणगीतमगासिषुः| मङ्गलाचरणादूर्ध्वं भक्ताः विष्णुगुप्तविश्वविद्यापीठोदयार्थं धनद्रव्याणि […]