भूलोकदीपः द्युलोकमदीपयत् – श्रीशिवकुमारस्वामिनः शिवैक्याः

वार्ता

बेङ्गलूरु – त्रिविधदानैः लक्षाधिकविद्यार्थिनां समाजस्य च दीपः, एकादशाधिकसमायुष्मान् महान् चेतनः, चरन् देवः इति प्रसिद्धः श्रीसिद्धगङ्गामठस्य श्रीशिवकुमारस्वामिवरेण्यः शिवैक्योऽभवदिति हेतोः राज्यमिदं शोकमग्नमभूत् । सन्दर्भेsस्मिन् बेङ्गलूरुनगरस्य गिरिनगरस्थे श्रीरामचन्द्रापुरमठे श्रीशिवकुमारस्वामिनां सत्कार्यादर्शान् च स्मृत्वा रामतारकमन्त्रं शिवपञ्चाक्षरीमन्त्रं च पठित्वा श्रीशिवकुमारस्वामिनां भावचित्रं पुष्पैरभ्यर्च्य श्रद्धाञ्जलिरर्पिता । विद्वान् जगदीशशर्मा, डा. शारदाजयगोन्दः, डा. वै. वि कृष्णमूर्तिः च श्रीशिवकुमारस्वामिनां समाजमुखिकार्याणि तेषाम् आदर्शमयं जीवनं च समस्मरन् ।

 

त्रिविधदानैः समाजमुद्धर्तुकामेभ्यः श्रीशिवकुमारस्वामिभ्यः श्रीक्षेत्रगोकर्णस्य संस्थानश्रीमहाबलदेवानुग्रहपूर्वकं श्रीसंस्थानाधीश्वरैः प्रदत्तं सार्वभौमपुरस्कारं, गोहत्यानिषेधार्थं श्रीशिवकुमारस्वामिभिः दत्तम् अभयाक्षरहस्ताङ्कनं चापि अस्मिन्नवसरे सर्वैः संस्मृतम् ।

 

अस्मिन्नेव दिने गोहत्यानिषेधार्थं सर्वकारं विज्ञापयितुम् राज्ये सर्वत्र अभयाक्षरावेदनपत्राणां समर्पणकार्यमासीत् । श्रीशिवकुमारस्वामिनां शिवैक्यकारणात् कार्यक्रमोऽयम् अग्रे अपसारितः ।

 

सभायां यु.एस्.जि भट्टः, राघवसेनायाः आर्.के. भट्टः, श्यामकुमारः, मञ्जप्प गुण्डि, गणेशः जे.एल्., अभयाक्षरकार्यकर्तारः शिष्यभक्ताश्च समुपस्थिताः आसन् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *