मूरूरुविद्यालयछात्रस्य समर्जनम् – राज्यस्तरीयचक्रक्षेपणस्पर्धायां प्राथम्यमवाप्य राष्ट्रस्तरार्थं चितः

वार्ता शिक्षणं

 

कुमटा – मूरूरुस्थप्रगतिविद्यालयस्य आङ्ग्लमाध्यमे दशमकक्ष्यायामधीयानः अभि आर्. अडिगुण्डिनामा छात्रः राज्यस्तरीयचक्रक्षेपणस्पर्धायां प्रथमस्थानं प्राप्य राष्ट्रस्तरीयस्पर्धायै अर्हः अभवत् ।

मण्ड्यमण्डलस्य आदिचुञ्चनगिरिविद्यासंस्थायाः क्रीडाङ्गणे नवम्बरमासस्य २१, २२ तमेषु दिनाङ्केषु राज्यस्तरीयप्रौढशालाशिक्षणविभागद्वारा प्रचालितायां राज्यस्तरीयक्रीडास्पर्धावल्यां भागमूढ्वा अभि आर्. ३९.७५ मीटर् दूरे चक्रं क्षिप्त्वा प्रथमस्थानं प्राप्य देहल्यां प्रचलिष्यमाणराष्ट्रस्तरीयस्पर्धायै चितो जातः ।

 

२०१६ – १७ शैक्षिकवर्षेऽपि असौ अभि आर्. राष्ट्रस्तरे चक्रक्षेपणे राज्यस्य प्रतिनिधित्वेन भागमूढ्वा नवमस्थानम् अवाप्य प्रगतिविद्यालयस्य गौरवं वर्धितवानासीत् । अस्मिन् पर्यायेऽपि राष्ट्रस्तरे जित्वा यशोवान् भूयादिति संस्था शुभाशयान् प्रावदत् ।

 

प्रगतिविद्यालयेन शुभाशयाः – अभि. आर्. अडिगुण्डिनाम्नः बालस्य एतादृशमहासमर्जनार्थं मूरूरुकल्लब्बेस्थस्य विद्यानिकेतनप्रशासनमण्डल्याः सदस्याः, संस्थायाः मुख्याध्यापकः एम्. जि. भट्टः, दैहिकशिक्षाशिक्षकः अरुणनाय्क, कुमटाक्षेत्रस्य क्षेत्रशिक्षणाधिकारी, सार्वजनिकशिक्षणविभागस्य उपनिर्देशकः, दैहिकशिक्षापरिवीक्षकः एस्. जि. भट्टः, विद्यालयस्य सर्वे शिक्षकाः सर्वाः शिक्षिकाश्च शुभाभिनन्दनानि प्राचीकटन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *