वैशिष्ट्यपूर्णबालदिवसाचरणमकारि श्रीभारतीविद्यापीठेन – समुल्लसिताः छात्राः

वार्ता शिक्षणं

मुजुङ्गावु – नवम्बरमासस्य १४ तमे दिनाङ्के मुजुङ्गावुस्थेन श्रीभारतीविद्यापीठेन वैशिष्ट्येन विभिन्नशैल्या च बालदिवसः समाचरितः । तस्मिन् दिने बालानां विविधप्रतिभाप्रदर्शनाय ‘चीटिकां चिन्वन्तु – पात्रम् अभिनयन्तु’, चीटिकां चिन्वन्तु – आशु भाषन्ताम्’ इत्यादिविशिष्टस्पर्धाः समायोजिताः । चितचीटिकया प्राप्तविषयम् आधारीकृत्य बालाः अभिनयं भाषणञ्च अकुर्वन् । पश्चात् कार्यक्रमे विद्यासंस्थायाः प्रशासनाधिकारी श्यामभट्टः दर्भे मार्गमहोदयः बालदिवसस्य बालानां सर्वाङ्गीणविकासस्य च महत्त्वमभाषत ।

 

कार्यक्रमस्यान्ते सर्वेभ्यः बालेभ्यः मिष्टान्नवितरणमङ्कनीवितरणञ्चाभूत् । शालायाः शिक्षिका स्वातिः सर्वेषां स्वगतमकार्षीत् । अपरा शिक्षिका विजया प्रास्ताविकभाषणमकरोत् । शिक्षकः हरिप्रसादः कार्यक्रमं समचालयत् । कुमारी कृत्तिका तद्गणीयाश्च प्रार्थनामकुर्वन् । अन्ते कार्तज्ञ्यनिवेदनं शिक्षिका कुमारी क्षमा अकार्षीत् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *