श्रीसंस्थानाधीश्वराणां सन्निधौ समरसन्यासस्य योजनायाः रेखाप्रतेः समर्पणम्

वार्ता

 

बेङ्गलूरु – श्रीसंस्थानाधीश्वराणां मार्गदर्शने मुल्लेरियाहव्यकमण्डलस्य केन्द्रबिन्दुरूपेण मुल्लेरिया – बदियड्क-राजमार्गसमीपे देलम्पाडिनिकटे समरसनाम्न्याः श्रीमठस्य अङ्गसंस्थायाः निर्माणं भविष्यति ।

 

श्रीमठस्य अंगसस्थायाः समरसाभिधायाः योजनाक्षेत्रस्य रेखाप्रतिं १६.१२.२०१८ तमे दिनाङ्के भानुवासरे श्रीरामाश्रमे श्रीसंस्थानाधीश्वराणां सान्निध्ये पदाधिकारिणः समर्पितवन्तः ।

 

सन्दर्भेsस्मिन् हव्यकमहामण्डलस्य प्रधानकार्यदर्शी हरिप्रसादः पेरियप्पु, समरसन्याससमूहस्य पदाधिकारिणश्च श्रीसंस्थानाधीश्वराणाम् आशीर्वादं स्वीकृतवन्तः ।

 

श्रीसंस्थानाधीश्वराः योजनाविचारे हर्षं प्रकटीकृत्य कार्यसिद्धये अनुग्रहमन्त्राक्षतान् दत्वा आशीर्वादम् अकुर्वन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *