बदियड्कस्थे श्रीभारतीविद्यापीठे मातापितृपूजा – जन्मदात्रोः सेवार्थं प्रतिज्ञाबद्धाः पुत्राः – भावपरवशाः पितरः

शिक्षणं

 

बदियड्क – नवम्बरमासस्य २३ तमे दिनाङ्के श्रीभारतीविद्यापीठे मातापितृपूजा श्रद्धाभक्तिभ्यां सुसम्पन्ना ।

 

विद्यापीठस्य मुख्याध्यापकः सत्यनारायणशर्मपञ्जित्तड्कवर्यः पूजायाः विधानमुक्त्वा पुत्रैः मातापित्रोः पादपूजां कारयित्वा प्रतिज्ञाविधिं प्राबोधयत् ।

 

प्रतिज्ञाविधौ पुत्राः “मातापितरौ अस्माकं प्रत्यक्षदेवौ । तयोराशीर्वादेन जीवने किमपि वा साधयितुं शक्यते । अपि च वयं मातापित्रोः वार्धक्ये तयोः सम्यक् परिपालनं करिष्यमः” इति मातापित्रोः पादस्पर्शं कृत्वा प्रतिज्ञामकुर्वन् ।
सन्दर्भेsस्मिन् भावुकाः मातापितरः पुत्रान् अभिनन्द्य आशिषः अवदन् ।

 

विद्यापीठस्य प्रशासनमण्डल्याः सदस्यः श्यामभट्टबेर्कडवुवर्यः “एतादृशे विशिष्टे कार्यक्रमे उपस्थाय प्रसन्नोsस्मि । एवमेव पुत्राः मातापित्रोः विद्यालयस्य च कीर्तिवर्धककार्याणि कुर्वन्तु” इति उपादिशत् ।

दशमकक्ष्यायाः विद्यार्थिनः कार्यक्रमममुं समायोजयन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *