माणिक्यभारती – स्वप्रयत्नः देवकृपा च-परमपूज्यश्रीमज्जगद्गुरुशङ्कराचार्यश्रीश्रीराघवेश्वरभारतीमहास्वामिनां प्रवचनामृतम्

श्रीसंस्थानम्

एकदा अक्बरबीरबल्लमहोदयौ अरण्ये अटन्तौ आस्ताम् । सुदूरे निष्क्रान्तेऽपि एकोऽपि ग्रामः आलयो वा न लब्धः । उभावपि पिपासाबुभुक्षाभ्यां पीडितौ । तदा बीरबल्लमहोदयः कस्यचन वृक्षस्याधः उपविश्य `राम ! राम !’ इति रामस्य नामजपम् आरब्धवान् ।

 

तदा अक्बरमहोदयः `जपाचरणेन भोजनं न लभ्यते’ उत्युक्त्वा अग्रे प्रयातः।

 

एवमनतिदूरे सङ्क्रान्ते तेन एकः ग्रामः प्राप्तः । तस्य ग्रामस्य कस्यचित् गृहस्य द्वारस्याग्रे स्थित्वा `यः कोऽपि आहारः अस्ति चेद्दीयताम्’ इति याचते ।

 

तदा तद्गेहिनः `स्वगृहं प्रति समायातं चक्रवर्तिनं सम्पूज्य, विविधाहारविशेषं सज्जीकृत्य मृष्टान्नभोजनमेव परिवेशितवन्तः । तदनु सः बीरबल्लमहोदयाय पाथेयं स्वीकृत्य तस्य समीपमागतवान् ।

 

जपनिरतं बीरबल्लमहोदयं प्रति पाथेयं वितरन् अक्बरमहोदयः ‘स्वप्रयत्नेन मृष्टान्नं लब्धम् ‘ इति अवोचत् ।

 

तदा बीरबल्लमहोदयः ‘श्रीरामस्य कृपया अत्रैवोपविष्टस्य मम समीपे स्वयं चक्रवर्ती एव आगत्य मृष्टान्नं पर्यवेशयत्’ इति प्रत्यवदत् ।

 

अतः स्वप्रयत्नस्य देवकृपायाश्च समानं महत्त्वं विद्यते । जीवनोज्जीवनाय स्वप्रयत्नदेवकृपे उभेऽपि आवश्यिके ।

 

अनुवादः – कृष्णानन्दशर्मा

Leave a Reply

Your email address will not be published. Required fields are marked *