विदुषे उमाकान्तभट्टवर्याय श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारः

वार्ता

 

श्रीरामचन्द्रापुरमठस्य अविच्छिन्नगुरुपरम्परायाः पञ्चत्रिंशत्तमयतीन्द्राणां ब्रह्मीभूतानां जगद्गुरुशङ्कराचार्यश्रीराघवेन्द्रभारतीमहास्वामिनाम् आराधनामहोत्सवः श्रीमठस्य बेङ्गलूरुनगरस्य गिरिनगरस्थे शाखामठे श्रीरामाश्रमे १५.१२.२०१८ तमे दिनाङ्के शनिवासरे जगद्गुरुशङ्कराचार्यश्रीराघवेश्वरभारतीमहास्वामिनां दिव्यसन्निधौ तीर्थराजपूजापुरस्सरं श्रीमठीयां पद्धतिमनुसृत्य सम्पत्स्यते ।

 

पश्चात् प्रवर्तिष्यमाणायां धर्मसभायां श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारः श्रीगुरुपरम्परानुग्रहश्च स्थानं वेत्स्यन्ति ।

 

*श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारः*

 

पूर्वाचार्याणां ब्रह्मैक्यानां जगद्गुरुशङ्कराचार्यश्रीराघवेन्द्रभारतीमहास्वामिनां संस्मृतौ प्रतिवर्षम् आराधनावसरे श्रीमठः विद्वद्वरेण्यानभिज्ञाय श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारेण तान् सभाजयति । अनेन वेदशास्त्रसंस्कृतिसंरक्षणकार्यम् इतोsप्यनुवर्तयितुं श्रीमठस्य प्रोत्साहः नितरां वर्तते इति दृढीक्रियते ।

 

ऐषमं जगद्गुरुशङ्कराचार्यश्रीराघवेश्वरभारतीमहास्वामिनः प्रथितविद्वांसं केरेकै उमाकान्तभट्टवर्यं श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारप्रदानेन अनुग्रहीष्यन्ति ।

 

*विद्वान् उमाकान्तभट्टः*

उत्तरकन्नडमण्डलस्य शिरसिजनपदस्य केरेकैग्रामे प्राप्तजन्मा विद्वद्वरिष्ठः उमाकान्तभट्टवरेण्यः प्राचीननवीनन्यायशास्त्रविचक्षणः हिन्दीकन्नडाङ्ग्लभाषापटुः विख्यातवाग्मी च राराजते ।

 

तालमार्दङ्गिकक्षेत्रे प्रथितः अर्थप्रवक्ता वाक्यार्थविशारदबिरुदभाक् असौ उमाकान्तभट्टवर्यः संस्कृतकन्नडभाषाभिः नैकान् ग्रन्थान् समररचत् । वेदशास्त्रसंस्कृतसंस्कृतिक्षेत्रेषु अमुष्य अनितरसाधारणं योगदानमभिलक्ष्य अस्मै श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारः प्रदित्स्यते ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *