उत्तरबेङ्गलूरुमण्डले समाचरितः कार्त्तिकदीपोत्सवः भजनाकार्यक्रमश्च

उत्तरबे‌‍‌‍‍‌ङ्गलूरुहव्यकमण्डलस्य कार्यदर्शिनः गोपालकृष्णमहाभागस्य साक्षात्कारकलानिकेतननामके गृहे कार्त्तिकदीपोत्सवः भजनाकार्यक्रमश्च नवम्बरमासे २२ दीनाङ्के सुसम्पन्नः ।   मण्डलाध्यक्षः जि.जि. हेगडे तलेकेरे महाभागः दीपं प्रज्वाल्य कार्यक्रमम् उदघाटयत् । तदनु भाषमाणः सः ‘कार्त्तिकमासस्य शुभावसरे बालैः साकम् कार्यक्रमेsस्मिन् समवेताः स्मः । एतादृशकार्यक्रमाणाम् आयोजनेन बालानां कौशलवर्धनाय अवसरः कल्पितो भवति । अस्माकं सङ्घटनापि बलिष्ठा भवति’ इत्यादिभिः वचनैः कार्यक्रमोsयं यशस्वी भूयादिति शुभाशंसनम् अवोचत् ।   […]

Continue Reading

गोवाहव्यकवलयेन कार्त्तिकदीपोत्सवः कुङ्कुमार्चनम् अष्टावधानसेवा खाद्योत्सवश्च

गोवाहव्यकवलयेन कार्त्तिकदीपोत्सवः विशिष्टरीत्या समाचरितः । नवेम्बरमासस्य २४ तमे दिनाङ्के.शनिवासरे कार्त्तिककृष्णप्रतिपदि मडगांवनगरस्थे श्रीगजाननमहाराजमठे कार्त्तिकदीपोत्सवः सम्पन्नः । तदङ्गतया कुङ्कुमार्चनम्, अष्टावधानसेवा, दीपाराधनं, खाद्योत्सवश्च प्राचलत् ।   श्रीगुरुवन्दनया आरब्धे कार्यक्रमे रेखाहेगडे, ममताहेगडे चेत्यनयोः नेतृत्वे पञ्चदश महिलाः कुङ्कुमार्चनमकुर्वन् । वलयस्य संस्कारप्रधानः महाबलभट्टः अष्टावधानसेवायाः नेतृत्वमूढ्वा सङ्क्षेपेण दीपस्य महत्त्वमवर्णयत् ।   भावपूर्णगीतानि गायन्तः सर्वेsपि दीपं प्रज्वाल्य स्वात्मज्योतिप्रदीपनस्य सङ्कल्पमकुर्वन् ।   वलयसदस्यैः स्वगृहेषु […]

Continue Reading

बेल्लेच्चालुघटके प्रदोषकाले रुद्राराधनम्

श्रीसंस्थानाधीश्वराणां निर्देशानुसारं लोककल्याणार्थं मुल्लेरियामण्डलान्तर्गतचन्द्रगिरिवलयस्य बेल्लेच्चालुघटके विद्यमाने कुजत्तोडि राजगोपालशर्मणः सदने नवेम्बरमासस्य विंशे दिनाङ्के प्रदोषकाले रुद्राराधनं समभवत् ।   अस्मिन् कार्यक्रमे चतुर्विंशतिरुद्रपाठकाः रुद्राध्यायस्य, अपरे सप्तदशजनाः भजनरामायणस्य च पारायणम् अकुर्वन् ।

Continue Reading

श्रीरामाश्रमे सहस्रदीपोत्सवः

  गिरिनगरे शोभमाने श्रीरामाश्रमे श्रीगुरुदेवतानां कामधेनोः च दिव्यसान्निध्ये चम्पाषष्ठीपर्वणः सायं सहस्रदीपोत्सवपूर्वकं सपरिवारश्रीरामदेवस्य राजोपचारपूजा समर्पयिष्यते । कालः – १३.१२.२०१८, गुरुवासरे । समयः – सायं सप्तवादने । समेषां श्रद्धालूनां हार्दं स्वागतम् ।

Continue Reading

शरावतीनदीमध्ये द्वीपो हैगुन्दनामकः । राजते तत्र दुर्गाम्बा लोकसन्तापहारिणी ॥ तत्रोत्पन्नां सुगन्धाढ्यां शालीशालीनमालिकां । धारयित्वा हि दुर्गायै जनैस्सौख्यमकाङ्क्ष्यत ॥

Continue Reading

श्रीरामचन्द्रपुरपीठमठाग्रकेन्द्रे श्रीभारतीगुरुकुले तुलसीविवाहम् । सम्भूय सर्वगुरवो निजशिष्यवृन्दैरानन्दसान्द्रहृदयास्सममन्वतिष्ठन् ॥

Continue Reading

प्राये अभिप्राये च आदर्शप्रायेभ्यः पक्वपुम्भ्यः परिपक्वं कर्म सन्ध्यामङ्गलम् – श्रीसंस्थानाधीश्वराणां विशेषाशिषः

बेङ्गलूरु – निजजीवनस्य सन्ध्यासमये विद्यमानानां ज्येष्ठजीविनां शेषायुः मङ्गलमयं भूयादति सदाशिषा बेङ्गलूरुनगरस्य गिरिनगरस्थे श्रीरामाश्रमे २१.११.२०१८ तमे दिनाङ्के बुधवासरे सन्ध्यामङ्गलमिति अनुपमं कर्म सम्पन्नम् ।   हव्यकमहामण्डलस्य नेतृत्वे सञ्चालितेsस्मिन् सन्ध्यामङ्गले ६०, ७०, ८० च वत्सरानुत्तीर्णवन्तौ ७० दम्पती भागभाजौ भूत्वा श्रीसंस्थानाधीश्वराणां श्रीपाणिश्रीपर्णाभ्यां विशेषदिव्याशिषः प्राप्नुताम् ।   सन्ध्यामङ्गलकार्यक्रमस्य धर्मसभायाः दिव्यसान्निध्यं निरूह्य श्रीसंस्थानाधीश्वराः `सुचिरं सञ्जीव्य समाजं सन्दीप्य वयसः प्राये मनसः अभिप्राये […]

Continue Reading

कल्लड्कस्थे श्रीउमाशिवक्षेत्रे श्रीशनैश्चरस्य कल्पोक्तपूजा सुसम्पन्ना

कल्लड्क – कल्लड्कस्य कल्गेरुकट्टेप्रदेशे श्रीउमाशिवपुण्यक्षेत्रे श्रीसंस्थानाधीश्वराणां मार्गदर्शनेनाशीर्वादेन च शनिवासरे सायं सामूहिकरूपेण श्रीशनैश्चरस्य कल्पोक्तपूजा सुसम्पन्ना ।   सेवासमितेः अध्यक्षः राकोडि ईश्वरभट्टः, सेवासमितेः सदस्याः, मङ्गलूरुमण्डलस्य ग्रामणीः उदयकुमारकण्डिगमहोदयः, मूलमठस्य प्रतिनिधिः मु‌‌ल्लुञ्ज वेङ्कटेश्वरभट्टः, कल्लड्कहव्यकवलयाध्यक्षः यु.एस्.चन्द्रशेखरभट्टः नेक्किदरवु, विट्लवलयस्य दिग्दर्शकः सतीशपञ्जिगद्देमहाभागः, केपुवलयस्य दिग्दर्शकः कट्टे कृष्णमूर्तिः, सदस्यः मरिभट्टः कुप्लुचारु, यतिन् कुमारः चेत्यादयः उपस्थिताः आसन् ।   वेदमूर्तिः अनन्तनारायणभट्टः परकज्जे श्रीशनैश्चरस्य पूजायाः कथासारं […]

Continue Reading