उत्थानद्वादश्यां श्रीकरार्चितश्रीरामदेवाय १२२ के.जि. परिमितस्य गोधूमस्य पायसनैवेद्यम्

बेङ्गलूरु – नवेम्बरमासस्य २० तमे दिनाङ्के उत्थानद्वादश्याः पुण्यपर्वणि श्रीसंस्थानाधीश्वराणां सङ्कल्पानुसारेण सपरिवाराय श्रीकरार्चितश्रीरामदेवाय अखण्डगोधूमपायसनैवेद्यं समर्पितम् |   प्रातःकाले श्रीसंस्थानाधीश्वराणां श्रीरामदेवपूजायाः प्रागेव अखण्डगोधूमानां सुगन्धिपायसं सिद्धमभवत् | एकः द्रोणः नाम षोडशशरावपारिमाणम् | तादृशम् अष्टद्रोणपरिमाणम् – १२२.८५० के.जि. अखण्डगोधूमपायसनैवेद्यं श्रीरामदेवाय समर्पितम् | श्रीसंस्थानाधीश्वराणां करकमलाभ्यां श्रीरामदेवाय निवेदितं पायसप्रसादं श्रीमठस्य भक्तेभ्यः, बेङ्गलूरुमहानगरस्य विजयनगरे विद्यमानस्य श्रीभारतीविद्यालयस्य छात्रैभ्यः, विविधविद्यालछात्रेभ्यः, गिरिनगरस्थस्य श्रीमहागणपतिदेवालयस्य भक्तेभ्यः, बनशङ्करीदेवालयस्य […]

Continue Reading

अम्बागिर्यां शरन्नवरात्रोत्सवः नूतनयागशालायाः उद्घाटनोत्सवश्च सम्पन्नः

शिरसि – प्रतिवर्षमिव अस्मिन्नपि वर्षे आश्वयुजमासस्य शुक्लप्रतिपत्तः नवमीपर्यन्तं तन्नाम अक्टोबरमासस्य दशमदिनाङ्कात् सप्तदशदिनाङ्कपर्यन्तं श्रीसंस्थानाधीश्वराणां मार्गदर्शनानुसारं शिरसिनगरस्थे अम्बागिरिकालिकामठे शरन्नवरात्रोत्सवः वैभवेन सम्पन्नः । तदङ्गत्वेन प्रतिदिनं महिलाभिः कुङ्कुमार्चनं, पुरुषैः गायत्रीजपः, देविपारायणमहापूजाः, दशम्यां सीमोल्लङ्घनम्, अष्टावधानसेवादयश्च महामङ्गलनीराजनपुरस्सरं श्रद्धया भक्त्या च समाचरिताः । तथैव विंशे दिनाङ्के धार्मिकविधिविधानैः गोप्रवेशेन च नूतनयागशालायाः प्रारम्भोत्सवः सम्पन्नः । परेsहनि द्वादश्यां नवचण्डीयागः कट्टे शङ्करभट्टस्य आध्वर्ये साङ्गमनुष्ठितः । सन्दर्भेsस्मिन् […]

Continue Reading

दीपावल्यां महानन्दिगोलोकम् आयान्तु – गोसपर्यां समर्प्य पुण्यं विन्दन्तु

होसनगरम् – गावः अनादिकालात् मानवानाम् अविभाज्यान्यङ्गानि इति परिगण्यन्ते । पुरा गोसङ्ख्यामाधृत्य कस्यचित् पुरुषस्य ऐश्वर्यस्य निर्धारणं भवति स्म । गोमाध्यमेनैव अन्यवस्तूनां विनिमयं वा क्रयविक्रयणं वा भवति स्म । उपायनरूपेणापि धेनवः एव प्रदीयन्ते स्म ।   मनुष्यजीवनं पूर्णतया गोनिष्ठमासीत् इत्युच्यते चेत् न कोऽपि दोषः । यदा माता स्तन्यदानं स्थगयति तदारभ्य आजीवनं धेनुः स्वस्याः अमृततुल्यदुग्धं मनुष्यकुलाय प्रदाय मानवान् […]

Continue Reading

मालूरु गोशालायां गोपूजा दीपोत्सवश्च – पुण्यकार्ये भागिनः गोप्रेमिणः

मालूरु – मालूरुजनपदस्य गङ्गापुरस्थे श्रीराघवेन्द्र-गो-आश्रमे नवेम्बरमासस्य अष्टमे दिनाङ्के दीपावल्यङ्गभूता गोपूजा सम्पन्ना अभवत् । वेदमूर्तेः गोपालकृष्णभट्टस्य मार्गदर्शने गो-आश्रमसेवासमितेः कोशाध्यक्षः सर्वसदस्यानां प्रतिनिधिर्भूत्वा पूजां समार्पयत् ।   तदनु दीपावल्याः प्रकाशं समग्रगोशालायां व्यापयितुं गोशालां परितः दीपान् प्रज्वाल्य दीपोत्सवश्च समाचरितः ।   अस्मिन् अवसरे एव क्षेत्रदेवं श्रीसिद्धाञ्जनेयस्वामिनपि विशेषाभिषेकैः समपूजयन् ।   गोपूजाकार्ये कार्त्तिकदीपोत्सवे च श्रीरामचन्द्रापुरमठस्य माध्यमकार्यदर्शी रामचन्द्रः अज्जकान, निर्वहणासमितेः अध्यक्षः […]

Continue Reading

मुम्बैनगरेऽपि ससमुल्लासं प्राचालि गोपूजा – गोप्रेमिभिः सार्थकदीपावल्याचरणम्

मुम्बै – गोपूजादीपावल्योः अविनाभावसम्बम्धो विद्यते । कृष्यवलम्बितप्रदेशेषु दीपावल्यां गोपूजाकरणं तु सम्प्रदायः । परन्तु गोपूजा न केवलं ग्राम्यप्रदेशे अपि तु महानगरेष्वपि प्रचाल्यते इति विशेषः ।   श्रीरामचन्द्रापुरमठस्य श्रीसंस्थानाधीश्वराणां मार्गदर्शनेन मुम्बैमहानगरे कोल्हाडजनपदे प्रचाल्यमानायां गोशालायां ग्राम्यप्रदेशस्यापेक्षया समुल्लासेन दीपावलीपर्वणि गोपूजामकुर्वन् गोप्रेमिणः ।   नवेम्बरमासस्य अष्टमे दिनाङ्के सम्पन्नायां गोसपर्यायां मुम्बैहव्यकवलयाध्यक्षः श्रीकृष्णभट्टः गुड्डेबालु महाभागः गोपूजामकरोत् । तदनु मुम्बैहव्यकवलयस्य दशाधिकसदस्याः गोग्रासं दत्वा […]

Continue Reading

जेड्ल गोशालायां दीपावली – गोपूजा कुङ्कुमार्चनञ्च

सुल्य – सुल्यहव्यकवलयेन सम्पाजेग्रामस्य जेड्लपरिसरे स्थितायां गोशालायां नवेम्बरमासस्य नवमदिनाङ्के श्रद्धया भक्त्या च गोपूजनं समाचरितम् ।   गोपूजावसरे मातरः कुङ्कुमार्चनं कृतवत्यः। वैदिकविभागद्वारा ११४ तमं वेदवाहिनीपारायणमपि प्रवृत्तम् । एत्तुकल्लु नारायणभट्टः अरम्बूरु कृष्णभट्टः विश्वकीर्तिजोयिसमहोदयः वेङ्कटेशशास्त्री चेत्येते वैदिकवरेण्याः वेदपारायणम् अन्यधार्मिकविधीन् च प्रावर्तयन् ।   वलयस्य अध्यक्षः सुब्रह्मण्यभट्टः, उपाध्यक्षः विष्णुकिरणभट्टः, कोशाधिकारी ईश्वरभट्टः, कुम्बेत्तिनवन शिवरामभट्टः, उबरड्क सुधीरभट्टः च उपस्थिताः आसन् । […]

Continue Reading

श्रीरामाश्रमे कार्त्तिकदीपोत्सवः – स्वागतं समेषाम्

ज्योतिषां पर्वणः दीपावल्याः समनन्तरमेव कार्त्तिकदीपोत्सवसमुल्लासः आरभ्यते । बेङ्गगलूरुनगरस्य गिरिनगर्यां श्रीरामचन्द्रापुरमठस्य शाखामठे श्रीरामाश्रमेऽपि कार्त्तिकमासस्य दीपोत्सवः नवम्बरमासस्य अष्टमदिनाङ्कतः समारब्ध: ।   सपरिवारश्रीरामदेवसन्निधौ श्रीसंस्थानाधीश्वरणां दिव्योपस्थितौ समारब्धः दीपोत्सवः अयमितःपरमपि श्रीरामाश्रमे प्रतिसायं सम्पत्स्यते । विराजमानेषु दीपनिवहेषु श्रीरामचन्द्रप्रभोः दर्शनं विशिष्टं दिव्यानुभवं जनयति ।   असौ दीपोत्सवः कार्त्तिकशुक्लप्रथमातः (नवेम्बर् – ८) मार्गशीर्षशुक्लषष्ठीपर्यन्तम् (डिसेम्बर् -१३) अनुवर्तिष्यते । दीपोत्सवादिषु पुण्यकरसेवावसरेषु भागं वोढुं समेषामवसरः अस्ति […]

Continue Reading

सुल्यवलये वेदवाहिनी – वेदपारायणं वेदश्रवणं च सम्पन्नम्

सुल्य – सुल्यहव्यकवलयस्य वैदिक-संस्कारविभाग: ११२ तमं ११३ तमं च वेदवाहिनीकार्यक्रमं नवेम्बर् मासस्य द्वितीयदिने अन्वतिष्ठत् ।   ११२ तमः कार्यक्रमः केशवय्यभट्टस्य गृहे अभवत् । तदा यजमान: सकुटुम्बं वेदपठनम् अशृणोत् । घटकग्रामणीः विष्णुकिरणभट्टः उपस्थित: आसीत् ।   तस्मिन्नेव दिने नीरबिदरे वेङ्कटरमणभट्टस्य गृहे सम्पन्ने ११३ तमे कार्यक्रमे यजमान: सकुटुम्बं वेदानुसन्धानम् अकरोत् । नीरबिदरे भक्तवत्सलमहोदयः धन्यभावं प्राकटयत् ।   […]

Continue Reading

गोभ्यो ग्रासः – श्रमदानद्वारा विभिन्नं कार्यम् – अमृतधारागोशालायै गोप्रेमिणां साहाय्यम्

गोभ्यो ग्रासः – श्रमदानद्वारा विभिन्नं कार्यम् – अमृतधारागोशालायै गोप्रेमिणां साहाय्यम् कासरगोडु – कासरगोडुजनपदस्य पेर्लप्रदेशस्य बजक्कूड्लुग्रामस्य अमृतधारागोशालायां स्वयम्प्रेरितश्रमदानेन अपूर्वरीत्या गोभ्यो ग्राससमर्पणकार्यक्रमः प्राचलत् । कुम्बलेवलयस्य सीतङ्गोलिग्रामस्य हमीद् नेल्लिकुन्नु महाभागस्य केदारस्थले सार्द्रतृणानि वर्धितानि आसन् । मुल्लेरिया हव्यकमण्डलस्य चन्द्रगिरिवलयस्य गोप्रेमिणः तेषां तृणानां सदुपयोगकरणार्थं तृणानि कर्तयित्वा तानि वाहनसाहाय्येन बजक्कूड्लु – अमृतधारागोशालां प्रैषयन् । श्रीरामचन्द्रापुरमठस्य मुल्लेरियामण्डलस्य विद्यार्थिवाहिनीप्रधानः केशवप्रसादः एडक्कान, कुम्बलेवलयाध्यक्षः बालकृष्णशर्मा, […]

Continue Reading

श्रीरामाश्रमे सपरिवारश्रीरामचन्द्रदेवप्रतिष्ठापनावार्षिकोत्सवः सम्पन्नः

बेङ्गलूरु – श्रीरामचन्द्रापुरमठस्य शाखामठे गिरिनगरस्थे श्रीरामाश्रमे सपरिवारस्य श्रीरामचन्द्रप्रभो: प्रतिष्ठापनावार्षिकोत्सवः श्रद्धाभक्तिवैभवेन सुसम्पन्न: । श्रीसंस्थानाधीश्वराणां दिव्योपस्थितौ तेषां मार्गदर्शने च विलम्बसंवत्सरस्य आश्वयुजकृष्णषष्ठ्यां सप्तम्यां च (३०.१०.२०१८, ३१.१०.२०१८) नैके धार्मिककार्यक्रमाः समनुष्ठिताः ।   मङ्गलवासरे श्रीगुरुप्रार्थनेन सह समारब्धेषु धार्मिककार्यक्रमेषु श्रीगणपतिपूजादेवनान्दीपुण्याहवाचनकौतुकबन्धनध्वजारोहणबलिकर्माणि च समाचरितानि । सायङ्काले रङ्गपूजाशिबिकोत्सवाष्टावधानसेवाः सम्पन्नाः । शताधिकाभक्ता: भगवतः शिबिकोत्सवे भागमूढ्वा कृतार्थाः अभवन् ।   अपि च सांस्कृतिककार्यक्रमाणामङ्गत्वेन यक्षर्षिहोसतोटमञ्जुनाथभागवतरविरचितस्य `गोमये वसते […]

Continue Reading