भान्कुलि – श्रीरामसेनायाः मार्गदर्शने गोस्वर्गे योगस्य व्यक्तित्वविकासस्य च सप्तदिनात्मकः प्रशिक्षणवर्गः ०२.१२.२०१८ दिनाङ्के समारब्धः ।
श्रीरामसेनायाः अध्यक्षः प्रमोदमुतालिकवर्यः वर्गमिमं समुद्घाट्य गोस्वर्गे विहारं कृत्वा गोस्वर्गस्य सम्पूर्णं परिचयमवाप्नोत् ।