श्रीरामाश्रमे कार्त्तिकदीपोत्सवः – स्वागतं समेषाम्

उपासना वार्ता

ज्योतिषां पर्वणः दीपावल्याः समनन्तरमेव कार्त्तिकदीपोत्सवसमुल्लासः आरभ्यते । बेङ्गगलूरुनगरस्य गिरिनगर्यां श्रीरामचन्द्रापुरमठस्य शाखामठे श्रीरामाश्रमेऽपि कार्त्तिकमासस्य दीपोत्सवः नवम्बरमासस्य अष्टमदिनाङ्कतः समारब्ध: ।

 

सपरिवारश्रीरामदेवसन्निधौ श्रीसंस्थानाधीश्वरणां दिव्योपस्थितौ समारब्धः दीपोत्सवः अयमितःपरमपि श्रीरामाश्रमे प्रतिसायं सम्पत्स्यते । विराजमानेषु दीपनिवहेषु श्रीरामचन्द्रप्रभोः दर्शनं विशिष्टं दिव्यानुभवं जनयति ।

 

असौ दीपोत्सवः कार्त्तिकशुक्लप्रथमातः (नवेम्बर् – ८) मार्गशीर्षशुक्लषष्ठीपर्यन्तम् (डिसेम्बर् -१३) अनुवर्तिष्यते । दीपोत्सवादिषु पुण्यकरसेवावसरेषु भागं वोढुं समेषामवसरः अस्ति । अधिकविचारावगत्यै आसक्ताः आसां दूरवाणीसङ्ख्यानां सम्पर्कं कर्तुमर्हन्तीति श्रीरामाश्रमनिर्वहणासमितेः विज्ञापना ।

दूरवाणीसङ्ख्याः

९४४९५९५२१५
९९४५०३०३७५

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *