छात्राणां कृते कार्यागारः – परीक्षासम्मुखीकरणविधानस्य अग्रिमावसराणां च विषये उद्बोधनम्

वार्ता शिक्षणं

नल्यपदवु – पठ्यमननस्य विधानानि, परीक्षायाः सम्मुखीकरणस्य उपायाः, दशमकक्ष्यायाः परं सम्मुखीक्रियमाणानि पन्थाह्वानानि, लप्स्यमानाः अवसराः चेत्येतेषां विषये संस्थायाः शिक्षणसंयोजकः प्राध्यापकः विश्वेश्वरभट्टवर्यः छात्रान् उदबोधयत् ।

 

श्रीभारतीसमूहसंस्थानां प्रेरणानामकेन मानवसम्पन्मूलाभिवृद्धिघटकेन नल्यपदवुग्रामस्य सर्वकारीयप्रौढशालायां प्रवर्तिते कार्यागारे ‘भयेन विना आत्मविश्वासेन परीक्षा सम्मुखीकरणीया’ इति सः उपादिशत् ।

 

कार्यागारे मुख्याध्यापिका विजयकुमारी, गणकशास्त्रोपन्यासकः अनन्तनारायणः, उपन्यासिका माधवी च उपस्थिताः अवर्तन्त ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *