हव्यकमहामण्डलेन प्रेप्सुभ्यः छात्रेभ्यः धनसाहाय्यम् – नानामण्डलेषु धनादेशपत्रवितरणम्

शिक्षणं

विद्याभ्यासानुवर्तनार्थम् आर्थिकसमस्याम् अनुभवद्भ्यः श्रीमठशिष्येभ्यः प्रतिभाशालिभ्यः छात्रेभ्यः श्रीरामचन्द्रापुरमठः प्रतिवर्षमिव अस्मिन् वर्षेsपि साहाय्यं कर्तुं समुद्यतोsस्ति । २०१८ – १९ तमस्य हायनस्य प्रेप्सुभ्यः अर्हेभ्यः २२१ छात्रेभ्यः ९,३६,००० रूप्यकाणां धनराशिः प्रकल्पितः वर्तते ।

 

११.११.२०१८ तमे दिनाङ्के भानुवासरे हव्यकमहामण्डलस्य सप्तमण्डलेषु अार्थिकसाहाय्यधनस्य धनादेशपत्राणि प्रदत्तानि ।

 

कुमटा-होन्नावर-मङ्गलूरु-उप्पिनङ्गडि-मुल्लेरिया-उत्तरबेङ्गलूरु-दक्षिणबेङ्गलूरुमण्डलानां १७३ छात्रेभ्यः ६,७०,००० रूप्यकाणां धनराशेः वितरणमभवत् । सन्दर्भेsस्मिन् हव्यकमहामण्डलस्य विविधमण्डलानां च पदाधिकारिणः समुपस्थिताः आसन् ।

 

छात्राणां कृते कार्यागारः अपि समभवत् । छात्रेषु अपेक्षिताः गुणाः, विद्याभ्यासादनन्तरम् उद्योगावसरः, तद्विषये श्रीमठस्य जीविकादिशादर्शिविभागयोः साहाय्यप्राप्तिविधानम् इत्यादिषु विषयेषु उद्बोधनं विहितम् । तथैव छात्रेभ्यः श्रीमठस्य परिचयः, श्रीमठे तेभ्यः विद्यमानः सेवावसरः, कार्यबद्धता, सामाजिकजालस्थानमुखेन श्रीमठस्य कार्यक्रमाणां सेवाकार्याणाञ्च प्रचारपुरस्सरं निर्वहणम् इत्यादिषु विषयेषु छात्राः बोधिताः प्रेरिताश्च ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *