श्रीसंस्थानाधीश्वराणां विशेषानुग्रहः

शिक्षणं

बेङ्गलूरु – हव्यकमहामण्डलपक्षतः प्रत्यभिज्ञाता योगक्षेत्रे विशेषसमर्जनसाधिका सन्ध्याभट्टमहोदया १६.१२.२०१८ तमे दिनाङ्के श्रीसंस्थानाधीश्वराणां विशेषानुग्रहमवाप्नोत् ।

 

दक्षिणबेङ्गलूरुमण्डलान्तर्गतस्य सर्वधारीवलयस्य पट्नडक नारायणभट्टस्य भार्या, पुत्तुरूक्षेत्रस्य शासकचरस्य उरिमजलुरामभट्टस्य पुत्री इयं राज्यराष्ट्रस्तरीयासु स्पर्धासु भागमूढ्वा बहून् पुरस्कारान् अलभत । योगस्पर्धासु निर्णयदात्री एषा राष्ट्रिययोगनिरीक्षिका च भूत्वा विशिष्टं समर्जनं व्यदधात् । पञ्जाबराज्ये प्रवृत्तायां राष्ट्रस्तरीयस्पर्धायां भागग्राहिका असौ साम्प्रतम् ‘एष्यन् चाम्पियनशिप्’ स्पर्धार्थं चिता विद्यते ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *