श्रीरामाश्रमे सपरिवारश्रीरामचन्द्रदेवप्रतिष्ठापनावार्षिकोत्सवः सम्पन्नः

उपासना वार्ता समारम्भः

बेङ्गलूरु – श्रीरामचन्द्रापुरमठस्य शाखामठे गिरिनगरस्थे श्रीरामाश्रमे सपरिवारस्य श्रीरामचन्द्रप्रभो: प्रतिष्ठापनावार्षिकोत्सवः श्रद्धाभक्तिवैभवेन सुसम्पन्न: । श्रीसंस्थानाधीश्वराणां दिव्योपस्थितौ तेषां मार्गदर्शने च विलम्बसंवत्सरस्य आश्वयुजकृष्णषष्ठ्यां सप्तम्यां च (३०.१०.२०१८, ३१.१०.२०१८) नैके धार्मिककार्यक्रमाः समनुष्ठिताः ।

 

मङ्गलवासरे श्रीगुरुप्रार्थनेन सह समारब्धेषु धार्मिककार्यक्रमेषु श्रीगणपतिपूजादेवनान्दीपुण्याहवाचनकौतुकबन्धनध्वजारोहणबलिकर्माणि च समाचरितानि । सायङ्काले रङ्गपूजाशिबिकोत्सवाष्टावधानसेवाः सम्पन्नाः । शताधिकाभक्ता: भगवतः शिबिकोत्सवे भागमूढ्वा कृतार्थाः अभवन् ।

 

अपि च सांस्कृतिककार्यक्रमाणामङ्गत्वेन यक्षर्षिहोसतोटमञ्जुनाथभागवतरविरचितस्य `गोमये वसते लक्ष्मी:’ इत्याख्यस्य आख्यानस्य तालमार्दङ्गिककार्यक्रमः समभूत् । यक्षपद्यगाने नेब्बूरु नारायणभागवतः, मृदङ्गवादने ए. पि. पाठकः, अर्थव्याख्याने विद्वान् जगदीशशर्मा मोहनभास्करहेगडे च वेदिकामलमकुर्वन् ।

 

बुधवासरे श्रीरामतारकहवनं कलशाभिषेकः बलिप्रदानं चानुष्ठितम् । महामङ्गलनीराजनेन सह उत्सवोऽयं मङ्गलतामाप्नोत् । दिनद्वयाचरितेऽस्मिन्नुत्सवे सहस्राधिकभक्ताः सश्रद्धं समेत्य सपरिवारश्रीरामचन्द्रभगवतः, श्रीसंस्थानाधीश्वरगुरूणां च कृपामविन्दन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *