गोभ्यो ग्रासः – श्रमदानद्वारा विभिन्नं कार्यम् – अमृतधारागोशालायै गोप्रेमिणां साहाय्यम्

उपासना गौः वार्ता

गोभ्यो ग्रासः – श्रमदानद्वारा विभिन्नं कार्यम् – अमृतधारागोशालायै गोप्रेमिणां साहाय्यम्

कासरगोडु – कासरगोडुजनपदस्य पेर्लप्रदेशस्य बजक्कूड्लुग्रामस्य अमृतधारागोशालायां स्वयम्प्रेरितश्रमदानेन अपूर्वरीत्या गोभ्यो ग्राससमर्पणकार्यक्रमः प्राचलत् ।

कुम्बलेवलयस्य सीतङ्गोलिग्रामस्य हमीद् नेल्लिकुन्नु महाभागस्य केदारस्थले सार्द्रतृणानि वर्धितानि आसन् । मुल्लेरिया हव्यकमण्डलस्य चन्द्रगिरिवलयस्य गोप्रेमिणः तेषां तृणानां सदुपयोगकरणार्थं तृणानि कर्तयित्वा तानि वाहनसाहाय्येन बजक्कूड्लु – अमृतधारागोशालां प्रैषयन् ।

श्रीरामचन्द्रापुरमठस्य मुल्लेरियामण्डलस्य विद्यार्थिवाहिनीप्रधानः केशवप्रसादः एडक्कान, कुम्बलेवलयाध्यक्षः बालकृष्णशर्मा, चन्द्रगिरिवलयस्य कार्यदर्शी राजगोपालः कैप्पङ्गल, मूलमठस्य प्रतिनिधिः कुञ्जत्तोडि गोपालशर्मा, गुम्पेवलयघटकस्य ग्रामणीः बि.एल्. शम्भुः हेब्बार, कुम्बलेवलयस्य सेवाप्रधानः सूर्यनारायण भट्टः, कुञ्जत्तोडि गणेशशर्मा, श्रीरामशर्मा एडक्कान, अनन्दः ऐतप्प, श्यामभट्टः कुद्रेप्पाडि एते सर्वे मिलित्वा तृणकर्तनयन्त्रं दत्तवन्तः आसन् ।

कर्तितं तृणनिवहम् अमृतधारागोशालां प्रति नेतुं राजगोपालः कैप्पङ्गल महोदयः वाहनसमायोजनपुरस्सरं सहकारमकरोत् । श्रीसंस्थानाधीश्वराणां मार्गदर्शने प्रचाल्यमानायाम् अस्यां गोशालायां विद्यमानाभ्यः गोभ्यः सार्द्रतृणसमर्पणरूपे पुण्यकार्ये सद्भक्ताः भागमभजन्त ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *