दीपावल्यां महानन्दिगोलोकम् आयान्तु – गोसपर्यां समर्प्य पुण्यं विन्दन्तु

उपासना गौः वार्ता

होसनगरम् – गावः अनादिकालात् मानवानाम् अविभाज्यान्यङ्गानि इति परिगण्यन्ते । पुरा गोसङ्ख्यामाधृत्य कस्यचित् पुरुषस्य ऐश्वर्यस्य निर्धारणं भवति स्म । गोमाध्यमेनैव अन्यवस्तूनां विनिमयं वा क्रयविक्रयणं वा भवति स्म । उपायनरूपेणापि धेनवः एव प्रदीयन्ते स्म ।

 

मनुष्यजीवनं पूर्णतया गोनिष्ठमासीत् इत्युच्यते चेत् न कोऽपि दोषः । यदा माता स्तन्यदानं स्थगयति तदारभ्य आजीवनं धेनुः स्वस्याः अमृततुल्यदुग्धं मनुष्यकुलाय प्रदाय मानवान् बलिष्ठान् करोति । आरोग्यञ्च संवर्धयति । कृषिकर्मणि उत्कृष्टफलप्राप्तये गोमूत्रगोमयादिपदार्थाः तया दीयन्ते । कृमिकीटानां नियन्त्रणं सर्वरोगहरणद्वारा पर्यावरणसंरक्षणं च गोजन्यपदार्थैः सम्पाद्यते । मनुष्यस्य और्ध्वदैहिकसंस्कारेष्वपि गोजन्यपदार्थाः उपयुज्यन्ते । एवं मानवः आजीवनं नैकेषु सन्दर्भेषु गाः अवलम्ब्यैव तिष्ठति । इत्थं गवां योगदानम् अनुपमम् अनन्यञ्च ।

 

गोत्याज्ये एव पूज्ये भवतश्चेत् गावः कियता प्रमाणेन अस्माभिः पूजनीयाः इति सम्यक् अवगन्तव्यम् । परम् आधुनिकतायाः प्रवाहे आत्मानं विक्षिप्य मानवः गाः स्वजीवनात् दूरीकर्तुमारभत । अतः सः तस्य परिणामत्वेन महान्तं सङ्कष्टम् अधुना अनुभवन् वर्तते । तथापि गोवंशनाशः अतिवेगेन प्रचलति । विनश्यन्तीं गोसन्ततिं रक्षितुं पुनः अस्माभिः गावः अस्माकं जीवनेन सह संयोजनीयाः । जनधेन्वोः समन्वयार्थं, पारम्परिकगोवंशानां संरक्षणार्थं संवर्धनार्थञ्च परमपूज्याः श्रीसंस्थानाधीश्वराः अविरतं परिश्राम्यन्तः गवां संरक्षण-संवर्धन-संशोधन-सम्बोधनप्रकल्पनां समाजे अनुष्ठातुं कामदुघा इत्युपक्रमं प्रारभन्त ।

 

कामदुघाख्यपरियोजनायाः छत्रछायायां दशाधिकगोशालाः श्रीमठेन सञ्चाल्यन्ते । तासु अनितरसाधारणा प्रपञ्चे आदर्शभूता गोशाला शिवमोग्गमण्डलस्य होसनगरसमीपे विराजते `महानन्दिगोलोकः’ इति नाम्ना । जगति अद्य उपलभ्यमानानां सर्वेषामपि देशीयगोवंशानां प्रतिनिधिभूताः धेनवः अत्र एकस्मिन्नेव स्थले दृष्टिगोचराः भवन्ति । गोमूत्रगोमयजन्यपदार्थानाम् उत्पादनघटकानि अपि अत्र वर्तन्ते ।

 

यत्किमपि रक्षणीयञ्चेत् तद्विषये अस्माकं हृदये आदरभावः भवेत् । तद्विषये आराधनमपि कुर्याम । आराधनं नाम पूजनम् । गवां विषये गौरवभावस्य अभिव्यञ्जनाय प्रतिवर्षमिव अस्मिन् वर्षेऽपि भक्तिसमर्पणावसरः प्रकल्पितः वर्तते ।

 

महानन्दिगोलोकस्य भव्यदिव्यपरिसरे दीपावल्याः शुभावसरे ०८.११.२०१८ दिनाङ्के गुरुवासरे समस्तगोभक्तानां श्रेयोऽभिवृद्धये गोपूजाकार्यक्रमः समायोजितः विद्यते । गोभ्यः षोडशोपचारपूजां समर्पयितुं गोप्रेमिणां कृते अवसरः कल्पितः अस्ति । गोपूजायाः महान्ति फलानि सन्ति । वयं ज्ञात्वा वा अज्ञात्वा वा जीवने नैकानि पापकर्माणि कुर्मः । पापपरिहारार्थं गोपूजनं महर्षिभिः अनुगृहीतः उत्कृष्टः मार्गः । तथैव समस्तदेवानुदेवतानाम् अनुग्रहपात्रतां गत्वा पुण्यसम्पादनार्थमपि गोपूजनं सुलभम् अयनमिति इति निगदितम् । विधिपूर्वकगोपूजनविधानसमये वयं गवां समीपं गच्छामः, स्पर्शनमपि कुर्मः। गवां निःश्वासः अस्माकम् उच्छ्वासेन मिश्रीभूय अस्माकं देहं प्रविशति । गोमूत्रगोमयप्रभावेण गोपूजकाः परिशुद्धाः भवन्ति । एताः सर्वाः प्रक्रियाः अस्माकं व्याधिप्रमाणं न्यूनीकृत्य आरोग्यं वर्धयन्तीति न केवलं शास्त्राणि वदन्ति अपि तु विज्ञानेन प्रमाणीकृतमस्ति । अस्मिन्नेव सन्दर्भे गोभ्यः ग्राससमर्पणस्यापि भाग्यं लभ्यते । एतावन्ति सत्फलानि प्रयच्छन्त्यां गोपूजायां भागमूढ्वा सेवां समर्पयामः ।

 

स्मरन्तु, यदि वयं दीपावल्यवसरे महानन्दिगोलोके गोपूजनं समर्पयामः तर्हि तेन सङ्गृहीतः धनराशिः गोग्रासं क्रेतुम् उपयुज्यते । तन्नाम गोपूजनसमर्पणस्य पुण्यफललाभेन सह तत्रस्थगोभ्यः ग्रासक्रयणेऽपि अस्माकं सेवा भवतीति अहोभाग्यम् । तथैव तत् तृणं यदा धेनवः अदन्ति तदा गोग्राससमर्पणस्य फलमपि लभ्यते । अस्माकम् एकं सेवासमर्पणं गवां जीवने नूतनचैतन्यरश्मिम् आनयति । अतः वयं ५०० रूप्यकाणि समर्प्य दीपावलीगोपूजार्थं स्वनाम्नः पञ्जीकरणं कुर्मः । आगच्छन्तु, यै: नामानि पञ्जीक्रियन्ते तैः तद्दिने महानन्दीगोलोके उपस्थाय गोपूजायां भागः वहनीयः । भवतः सवत्सधेनोः पुरतः उपावेश्य ससङ्कल्पां क्रमबद्धां पूजां कारयन्ति । यदि तद्दिने महानन्दिगोलोकमागन्तुं न शक्नुवन्ति तर्हि भवतां विवरणं दत्तं चेत् सङ्कल्पं कृत्वा प्रसादं भवतां सङ्केताय प्रेषयन्ति ।

एवं यथाशक्ति सेवासमर्पणेन गोसंरक्षणमहाभियाने भागं वहामः।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *