मुम्बैनगरेऽपि ससमुल्लासं प्राचालि गोपूजा – गोप्रेमिभिः सार्थकदीपावल्याचरणम्

उपासना गौः वार्ता

मुम्बै – गोपूजादीपावल्योः अविनाभावसम्बम्धो विद्यते । कृष्यवलम्बितप्रदेशेषु दीपावल्यां गोपूजाकरणं तु सम्प्रदायः । परन्तु गोपूजा न केवलं ग्राम्यप्रदेशे अपि तु महानगरेष्वपि प्रचाल्यते इति विशेषः ।

 

श्रीरामचन्द्रापुरमठस्य श्रीसंस्थानाधीश्वराणां मार्गदर्शनेन मुम्बैमहानगरे कोल्हाडजनपदे प्रचाल्यमानायां गोशालायां ग्राम्यप्रदेशस्यापेक्षया समुल्लासेन दीपावलीपर्वणि गोपूजामकुर्वन् गोप्रेमिणः ।

 

नवेम्बरमासस्य अष्टमे दिनाङ्के सम्पन्नायां गोसपर्यायां मुम्बैहव्यकवलयाध्यक्षः श्रीकृष्णभट्टः गुड्डेबालु महाभागः गोपूजामकरोत् । तदनु मुम्बैहव्यकवलयस्य दशाधिकसदस्याः गोग्रासं दत्वा गवामनुग्रहमलभन्त ।

 

मुम्बैमहानगरात् १३० किलोमीटर् दूरे विद्यमानायामस्यां गोशालायां द्विशताधिकगावः सन्ति । महानगरेष्वपि गोपूजायाः गोसेवायाः च अवसरः वर्तते इत्यभिज्ञाय गोप्रेमिणः अस्मिन्नब्दे ससमुल्लासं दीपावलीं समाचरन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *