कल्लड्कस्थे श्रीउमाशिवक्षेत्रे श्रीशनैश्चरस्य कल्पोक्तपूजा सुसम्पन्ना

उपासना वार्ता

कल्लड्क – कल्लड्कस्य कल्गेरुकट्टेप्रदेशे श्रीउमाशिवपुण्यक्षेत्रे श्रीसंस्थानाधीश्वराणां मार्गदर्शनेनाशीर्वादेन च शनिवासरे सायं सामूहिकरूपेण श्रीशनैश्चरस्य कल्पोक्तपूजा सुसम्पन्ना ।

 

सेवासमितेः अध्यक्षः राकोडि ईश्वरभट्टः, सेवासमितेः सदस्याः, मङ्गलूरुमण्डलस्य ग्रामणीः उदयकुमारकण्डिगमहोदयः, मूलमठस्य प्रतिनिधिः मु‌‌ल्लुञ्ज वेङ्कटेश्वरभट्टः, कल्लड्कहव्यकवलयाध्यक्षः यु.एस्.चन्द्रशेखरभट्टः नेक्किदरवु, विट्लवलयस्य दिग्दर्शकः सतीशपञ्जिगद्देमहाभागः, केपुवलयस्य दिग्दर्शकः कट्टे कृष्णमूर्तिः, सदस्यः मरिभट्टः कुप्लुचारु, यतिन् कुमारः चेत्यादयः उपस्थिताः आसन् ।

 

वेदमूर्तिः अनन्तनारायणभट्टः परकज्जे श्रीशनैश्चरस्य पूजायाः कथासारं प्रावोचत् । पूजायामस्यां शताधिकाः भक्ताः भागमूढ्वा प्रसादं स्वीकृत्य कृतार्थाः अभवन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *