उरुवालुग्रामे अन्वर्थराज्योत्सवस्य आचरणम् – आङ्ग्लमाध्यमछात्रेभ्यः कन्नडपाठः – भाषां रक्षत राज्यं वर्धयत इत्यवोचन् गण्याः

वार्ता शिक्षणं

उरुवालु – अत्रस्थायां श्रीभारतीविद्यासंस्थायां कन्नडराज्योत्सवम् अर्थपूर्णरीत्या आचरितवन्तः। नवम्बरमासे प्रथमे दिनाङ्के सानुदानोच्चप्राथमिकशालायाः आङ्ग्लमाध्यमशालायाश्च सहयोगेन सञ्चालितं राज्योत्सवकार्यक्रमममुं विद्यार्थिनः राज्यगीतगानपूर्वकं प्रारभन्त।

राज्योत्सवाचरणस्य मूलकारणभूतायाः कर्नाटकस्य एकतायाः विषये विद्यासंस्थायाः मुख्यशिक्षिका श्रीमती जयलक्ष्मीः, सहशिक्षिका श्रीमती कमरुन्नीसा, श्रीलक्ष्मणगौडः च विवरणं दत्तवन्तः ।

शालासंसदः विरोधपक्षस्य नायकः कार्तिकः राज्योत्सवस्य महत्त्वम् अगदत् । उभयशालायाः छात्राः कर्नाटकराज्यस्य अवनिवनजलादीनां महत्त्वप्रतिपादकानि गीतनि अगायन् ।

शालायाः प्रशासनसमितेः अध्यक्षः श्रीमान् शङ्करनारायाणभट्टः कार्यक्रमस्य आध्यक्ष्यं निरूह्य प्रतिदिनं प्रयुज्यमानानां कठिनशब्दानामर्थः, पदानां समुचितप्रयोगः, भाषोपयोगः इत्यादीन् विचारान् अधिकृत्य छात्रैः सह चर्चितवान् ।

कार्यक्रमे समुपस्थितान् वरिष्ठान् छात्रः चित्तरञ्जनः स्वागतीकृतवान् । कुमारी चैतन्या वन्दनार्पणम् अकरोत् । कुमारी प्रार्थना कार्यक्रमं निरवहत् । विद्यालयस्य अध्यपाकवृन्दः शताधिकाः छात्राश्च कार्यक्रमे भागम् अभजन् |

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *