प्राये अभिप्राये च आदर्शप्रायेभ्यः पक्वपुम्भ्यः परिपक्वं कर्म सन्ध्यामङ्गलम् – श्रीसंस्थानाधीश्वराणां विशेषाशिषः

बेङ्गलूरु – निजजीवनस्य सन्ध्यासमये विद्यमानानां ज्येष्ठजीविनां शेषायुः मङ्गलमयं भूयादति सदाशिषा बेङ्गलूरुनगरस्य गिरिनगरस्थे श्रीरामाश्रमे २१.११.२०१८ तमे दिनाङ्के बुधवासरे सन्ध्यामङ्गलमिति अनुपमं कर्म सम्पन्नम् ।   हव्यकमहामण्डलस्य नेतृत्वे सञ्चालितेsस्मिन् सन्ध्यामङ्गले ६०, ७०, ८० च वत्सरानुत्तीर्णवन्तौ ७० दम्पती भागभाजौ भूत्वा श्रीसंस्थानाधीश्वराणां श्रीपाणिश्रीपर्णाभ्यां विशेषदिव्याशिषः प्राप्नुताम् ।   सन्ध्यामङ्गलकार्यक्रमस्य धर्मसभायाः दिव्यसान्निध्यं निरूह्य श्रीसंस्थानाधीश्वराः `सुचिरं सञ्जीव्य समाजं सन्दीप्य वयसः प्राये मनसः अभिप्राये […]

Continue Reading

कल्लड्कस्थे श्रीउमाशिवक्षेत्रे श्रीशनैश्चरस्य कल्पोक्तपूजा सुसम्पन्ना

कल्लड्क – कल्लड्कस्य कल्गेरुकट्टेप्रदेशे श्रीउमाशिवपुण्यक्षेत्रे श्रीसंस्थानाधीश्वराणां मार्गदर्शनेनाशीर्वादेन च शनिवासरे सायं सामूहिकरूपेण श्रीशनैश्चरस्य कल्पोक्तपूजा सुसम्पन्ना ।   सेवासमितेः अध्यक्षः राकोडि ईश्वरभट्टः, सेवासमितेः सदस्याः, मङ्गलूरुमण्डलस्य ग्रामणीः उदयकुमारकण्डिगमहोदयः, मूलमठस्य प्रतिनिधिः मु‌‌ल्लुञ्ज वेङ्कटेश्वरभट्टः, कल्लड्कहव्यकवलयाध्यक्षः यु.एस्.चन्द्रशेखरभट्टः नेक्किदरवु, विट्लवलयस्य दिग्दर्शकः सतीशपञ्जिगद्देमहाभागः, केपुवलयस्य दिग्दर्शकः कट्टे कृष्णमूर्तिः, सदस्यः मरिभट्टः कुप्लुचारु, यतिन् कुमारः चेत्यादयः उपस्थिताः आसन् ।   वेदमूर्तिः अनन्तनारायणभट्टः परकज्जे श्रीशनैश्चरस्य पूजायाः कथासारं […]

Continue Reading

छात्राणां कृते कार्यागारः – परीक्षासम्मुखीकरणविधानस्य अग्रिमावसराणां च विषये उद्बोधनम्

नल्यपदवु – पठ्यमननस्य विधानानि, परीक्षायाः सम्मुखीकरणस्य उपायाः, दशमकक्ष्यायाः परं सम्मुखीक्रियमाणानि पन्थाह्वानानि, लप्स्यमानाः अवसराः चेत्येतेषां विषये संस्थायाः शिक्षणसंयोजकः प्राध्यापकः विश्वेश्वरभट्टवर्यः छात्रान् उदबोधयत् ।   श्रीभारतीसमूहसंस्थानां प्रेरणानामकेन मानवसम्पन्मूलाभिवृद्धिघटकेन नल्यपदवुग्रामस्य सर्वकारीयप्रौढशालायां प्रवर्तिते कार्यागारे ‘भयेन विना आत्मविश्वासेन परीक्षा सम्मुखीकरणीया’ इति सः उपादिशत् ।   कार्यागारे मुख्याध्यापिका विजयकुमारी, गणकशास्त्रोपन्यासकः अनन्तनारायणः, उपन्यासिका माधवी च उपस्थिताः अवर्तन्त ।

Continue Reading

उत्थानद्वादश्यां श्रीकरार्चितश्रीरामदेवाय १२२ के.जि. परिमितस्य गोधूमस्य पायसनैवेद्यम्

बेङ्गलूरु – नवेम्बरमासस्य २० तमे दिनाङ्के उत्थानद्वादश्याः पुण्यपर्वणि श्रीसंस्थानाधीश्वराणां सङ्कल्पानुसारेण सपरिवाराय श्रीकरार्चितश्रीरामदेवाय अखण्डगोधूमपायसनैवेद्यं समर्पितम् |   प्रातःकाले श्रीसंस्थानाधीश्वराणां श्रीरामदेवपूजायाः प्रागेव अखण्डगोधूमानां सुगन्धिपायसं सिद्धमभवत् | एकः द्रोणः नाम षोडशशरावपारिमाणम् | तादृशम् अष्टद्रोणपरिमाणम् – १२२.८५० के.जि. अखण्डगोधूमपायसनैवेद्यं श्रीरामदेवाय समर्पितम् | श्रीसंस्थानाधीश्वराणां करकमलाभ्यां श्रीरामदेवाय निवेदितं पायसप्रसादं श्रीमठस्य भक्तेभ्यः, बेङ्गलूरुमहानगरस्य विजयनगरे विद्यमानस्य श्रीभारतीविद्यालयस्य छात्रैभ्यः, विविधविद्यालछात्रेभ्यः, गिरिनगरस्थस्य श्रीमहागणपतिदेवालयस्य भक्तेभ्यः, बनशङ्करीदेवालयस्य […]

Continue Reading

अम्बागिर्यां शरन्नवरात्रोत्सवः नूतनयागशालायाः उद्घाटनोत्सवश्च सम्पन्नः

शिरसि – प्रतिवर्षमिव अस्मिन्नपि वर्षे आश्वयुजमासस्य शुक्लप्रतिपत्तः नवमीपर्यन्तं तन्नाम अक्टोबरमासस्य दशमदिनाङ्कात् सप्तदशदिनाङ्कपर्यन्तं श्रीसंस्थानाधीश्वराणां मार्गदर्शनानुसारं शिरसिनगरस्थे अम्बागिरिकालिकामठे शरन्नवरात्रोत्सवः वैभवेन सम्पन्नः । तदङ्गत्वेन प्रतिदिनं महिलाभिः कुङ्कुमार्चनं, पुरुषैः गायत्रीजपः, देविपारायणमहापूजाः, दशम्यां सीमोल्लङ्घनम्, अष्टावधानसेवादयश्च महामङ्गलनीराजनपुरस्सरं श्रद्धया भक्त्या च समाचरिताः । तथैव विंशे दिनाङ्के धार्मिकविधिविधानैः गोप्रवेशेन च नूतनयागशालायाः प्रारम्भोत्सवः सम्पन्नः । परेsहनि द्वादश्यां नवचण्डीयागः कट्टे शङ्करभट्टस्य आध्वर्ये साङ्गमनुष्ठितः । सन्दर्भेsस्मिन् […]

Continue Reading

प्रकटनम्

भवन्तः गोप्रेमिणो वा ? भवतामायुः १८ तः २५ वर्षाणां मध्ये अस्ति वा ? गोविषयकजनजागरणे आसक्ताः वा ? वाग्मिनः भवितुमिच्छन्ति वा ? तर्हि कार्यशालेयं भवादृशानां कृते एव भविष्यति । भारतीयगोपरिवारस्य कर्नाटकघटकस्य गोमहती इति विभागेन अयं कार्यक्रमः आयोजयिष्यते । डिसेम्बरमासस्य द्वितीयदिनाङ्कतः कोलारमण्डलस्य मालूरुग्रामस्थिते श्रीराघवेन्द्रगो-आश्रमे गोमहतीविभागेन अयं कार्यागारः सञ्चालयिष्यते । अत्र गोसम्बन्धिविचाराणां जागरणस्य प्रभाविभाषणस्य कलायाः च प्रशिक्षा दीयते […]

Continue Reading

श्रीभारतीविद्यालयाय डा.शारदाजयगोविन्दमहाभागया सहस्राधिकरूप्यकमौल्यानां पुस्तकदानम्

बेङ्गलूरू – अद्यतनीयछात्राणां पठनाभ्यासवर्धनाय हम्पिनगरस्थश्रीभारतीविद्यालयं प्रति गोस्वर्गचातुर्मास्यप्रशस्तिपुरस्कृतया शिक्षणविदुष्या डा. शारदाजयगोविन्दमहाभागया २५००० सहस्ररूप्यकमौल्ययुतानि १६३ पुस्तकानि दानरूपेण प्रदत्तानि ।   विद्यालयस्य प्रशासनकूटस्य सदस्या डा. शारदाजयगोविन्दमहाभागा उत्तमपुस्तकानाम् उपायनं दत्वा पुस्तकानामध्ययनेन नैजज्ञानसंवर्धनं सम्पादयन्त्विति छात्रानुद्दिश्य हितोपदेशमगादीत् ।   विद्यालयपक्षतः उपप्राचार्यः हरीशकुमारः अस्यै कृतज्ञतापत्रं प्रदाय गौरवार्पणमकरोत् । सन्दर्भेऽस्मिन् शारदाजयगोविन्दमहाभागा श्रीभारतीविद्यालये प्रवृत्तायां कार्यशालायां भागमूढ्वा गुणवत्तानिर्वहणम् इत्यस्मिन् विषये शिक्षकवृन्दस्य मार्गदर्शनमकरोत् ।   विविधक्रियाकलापानां […]

Continue Reading

श्रीमठस्य शिष्या सङ्गीतविदुषी श्रीमती वसुधाशर्ममहोदया प्रशस्तिसभाजिता – राष्ट्रिययुवसङ्गीतोत्सवे सम्मानम्

मैसूरु – मैसूरुनगरे नवम्बरमासस्य प्रथमसप्ताहे प्रवृत्ते दिनचतुष्टयात्मके ‘राष्ट्रिययुवसङ्गीतोत्सवः – २०१८’ इति कार्यक्रमे श्रीरामचन्द्रापुरमठस्य शिष्या सङ्गीतविदुषी श्रीमती वसुधाशर्ममहोदया प्रशस्तिसभाजिता ।   मैसूरुनगरस्थस्य अवधूतदत्तपीठस्य श्रीगणपतिसच्चिदानन्दाश्रमसंस्कारभारतीसंस्थयोः सहयोगेन नादमण्डपे समायोजिते राष्ट्रिययुवसङ्गीतोत्सवे विविधक्षेत्रेषु समाचरितानुपमसेवाः गण्याः सम्मानेन प्राप्तगौरवाः अभवन् । तेषु सम्मानप्रशस्तिभ्यां विभूषितेषु श्रीमती वसुधाशर्ममहाभागा अन्यतमेति प्रमोदावहो विषयः ।   श्रीमती वसुधाशर्ममहोदया मैसूरुमहाराजः यदुवीर ओडेयरमहोदयः, राज्यसर्वकारस्य उन्नतशिक्षणसचिवः जि.टि. देवेगौडमहोदयः इत्यनयोः हस्ताभ्यां […]

Continue Reading

वैशिष्ट्यपूर्णबालदिवसाचरणमकारि श्रीभारतीविद्यापीठेन – समुल्लसिताः छात्राः

मुजुङ्गावु – नवम्बरमासस्य १४ तमे दिनाङ्के मुजुङ्गावुस्थेन श्रीभारतीविद्यापीठेन वैशिष्ट्येन विभिन्नशैल्या च बालदिवसः समाचरितः । तस्मिन् दिने बालानां विविधप्रतिभाप्रदर्शनाय ‘चीटिकां चिन्वन्तु – पात्रम् अभिनयन्तु’, चीटिकां चिन्वन्तु – आशु भाषन्ताम्’ इत्यादिविशिष्टस्पर्धाः समायोजिताः । चितचीटिकया प्राप्तविषयम् आधारीकृत्य बालाः अभिनयं भाषणञ्च अकुर्वन् । पश्चात् कार्यक्रमे विद्यासंस्थायाः प्रशासनाधिकारी श्यामभट्टः दर्भे मार्गमहोदयः बालदिवसस्य बालानां सर्वाङ्गीणविकासस्य च महत्त्वमभाषत ।   कार्यक्रमस्यान्ते सर्वेभ्यः […]

Continue Reading

दीपावल्यां महानन्दिगोलोकम् आयान्तु – गोसपर्यां समर्प्य पुण्यं विन्दन्तु

होसनगरम् – गावः अनादिकालात् मानवानाम् अविभाज्यान्यङ्गानि इति परिगण्यन्ते । पुरा गोसङ्ख्यामाधृत्य कस्यचित् पुरुषस्य ऐश्वर्यस्य निर्धारणं भवति स्म । गोमाध्यमेनैव अन्यवस्तूनां विनिमयं वा क्रयविक्रयणं वा भवति स्म । उपायनरूपेणापि धेनवः एव प्रदीयन्ते स्म ।   मनुष्यजीवनं पूर्णतया गोनिष्ठमासीत् इत्युच्यते चेत् न कोऽपि दोषः । यदा माता स्तन्यदानं स्थगयति तदारभ्य आजीवनं धेनुः स्वस्याः अमृततुल्यदुग्धं मनुष्यकुलाय प्रदाय मानवान् […]

Continue Reading