प्राये अभिप्राये च आदर्शप्रायेभ्यः पक्वपुम्भ्यः परिपक्वं कर्म सन्ध्यामङ्गलम् – श्रीसंस्थानाधीश्वराणां विशेषाशिषः
बेङ्गलूरु – निजजीवनस्य सन्ध्यासमये विद्यमानानां ज्येष्ठजीविनां शेषायुः मङ्गलमयं भूयादति सदाशिषा बेङ्गलूरुनगरस्य गिरिनगरस्थे श्रीरामाश्रमे २१.११.२०१८ तमे दिनाङ्के बुधवासरे सन्ध्यामङ्गलमिति अनुपमं कर्म सम्पन्नम् । हव्यकमहामण्डलस्य नेतृत्वे सञ्चालितेsस्मिन् सन्ध्यामङ्गले ६०, ७०, ८० च वत्सरानुत्तीर्णवन्तौ ७० दम्पती भागभाजौ भूत्वा श्रीसंस्थानाधीश्वराणां श्रीपाणिश्रीपर्णाभ्यां विशेषदिव्याशिषः प्राप्नुताम् । सन्ध्यामङ्गलकार्यक्रमस्य धर्मसभायाः दिव्यसान्निध्यं निरूह्य श्रीसंस्थानाधीश्वराः `सुचिरं सञ्जीव्य समाजं सन्दीप्य वयसः प्राये मनसः अभिप्राये […]
Continue Reading