मालूरु गोशालायां गोपूजा दीपोत्सवश्च – पुण्यकार्ये भागिनः गोप्रेमिणः

मालूरु – मालूरुजनपदस्य गङ्गापुरस्थे श्रीराघवेन्द्र-गो-आश्रमे नवेम्बरमासस्य अष्टमे दिनाङ्के दीपावल्यङ्गभूता गोपूजा सम्पन्ना अभवत् । वेदमूर्तेः गोपालकृष्णभट्टस्य मार्गदर्शने गो-आश्रमसेवासमितेः कोशाध्यक्षः सर्वसदस्यानां प्रतिनिधिर्भूत्वा पूजां समार्पयत् ।   तदनु दीपावल्याः प्रकाशं समग्रगोशालायां व्यापयितुं गोशालां परितः दीपान् प्रज्वाल्य दीपोत्सवश्च समाचरितः ।   अस्मिन् अवसरे एव क्षेत्रदेवं श्रीसिद्धाञ्जनेयस्वामिनपि विशेषाभिषेकैः समपूजयन् ।   गोपूजाकार्ये कार्त्तिकदीपोत्सवे च श्रीरामचन्द्रापुरमठस्य माध्यमकार्यदर्शी रामचन्द्रः अज्जकान, निर्वहणासमितेः अध्यक्षः […]

Continue Reading

श्रीमठस्य शिष्याय नेपथ्यध्वनिदानकलाकाराय प्रदीपबडेक्किलमहोदयाय `सृष्टिकलोपासकः’ इति प्रशस्तिः

बेङ्गलूरु – जयनगरस्य जे. एस्. एस्. सभाङ्गणे शनिवासरे प्रवृत्ते सृष्टिकलाविद्यालयस्य सङ्गीतनृत्योत्सवसमारम्भे चलच्चित्रलघुचित्रपटनटाय दूरदर्शननिरूपकाय लेखकाय श्रीरामचन्द्रापुरमठस्य बह्वीनां प्रस्तुतीनां ध्वनिदानकलाकाराय प्रदीपबडेक्किलमहोदयाय `सृष्टिकलोपासक:’ इति प्रशस्तेः प्रदानं कृतम् ।   लघुचित्रपटस्य बहुभ्यः जनप्रियकार्यक्रमेभ्यः दत्तनेपथ्यध्वनिरेषः मेट्रोरेलयानस्य उद्घोषणानामपि कण्ठध्वनिं दत्तवानस्ति । श्रीमठस्य शिष्यः असौ प्रशस्तिभागभूदिति विज्ञाय श्रीसंस्थानाधीश्वराः श्रीमठस्य शिष्याश्च च नितान्तमानन्दं प्राकटयन् ।   अस्मिन्नेव समारोहे कवये दोड्डरङ्गेगौडमहोदयाय `सृष्टिकलाभूषणः’ इति प्रशस्तेः […]

Continue Reading

मुम्बैनगरेऽपि ससमुल्लासं प्राचालि गोपूजा – गोप्रेमिभिः सार्थकदीपावल्याचरणम्

मुम्बै – गोपूजादीपावल्योः अविनाभावसम्बम्धो विद्यते । कृष्यवलम्बितप्रदेशेषु दीपावल्यां गोपूजाकरणं तु सम्प्रदायः । परन्तु गोपूजा न केवलं ग्राम्यप्रदेशे अपि तु महानगरेष्वपि प्रचाल्यते इति विशेषः ।   श्रीरामचन्द्रापुरमठस्य श्रीसंस्थानाधीश्वराणां मार्गदर्शनेन मुम्बैमहानगरे कोल्हाडजनपदे प्रचाल्यमानायां गोशालायां ग्राम्यप्रदेशस्यापेक्षया समुल्लासेन दीपावलीपर्वणि गोपूजामकुर्वन् गोप्रेमिणः ।   नवेम्बरमासस्य अष्टमे दिनाङ्के सम्पन्नायां गोसपर्यायां मुम्बैहव्यकवलयाध्यक्षः श्रीकृष्णभट्टः गुड्डेबालु महाभागः गोपूजामकरोत् । तदनु मुम्बैहव्यकवलयस्य दशाधिकसदस्याः गोग्रासं दत्वा […]

Continue Reading

श्रीरामचन्द्रापुरमठेन अनन्तकुमारस्य कुटुम्बं प्रति सान्त्वनापत्रम्

भारतसर्वकारसचिवस्य अनन्तकुमारस्य अकालिकमरणस्य शोकसन्दर्भे सन्तापं संसूच्य श्रीरामचन्द्रापुरमठेन तेजस्विनीमहोदयां प्रति सान्त्वनापत्रं विलिखितं वर्तते । श्रीकरार्चितश्रीरामादिदेवतानुग्रहेण तद्वियोगवेदनाविस्मारिकां शक्तिं कुटुम्बः प्राप्नुयादिति आशास्य सान्त्वनापत्रं लिखितम् ।   उत्तमः राजनीतिज्ञः अनन्तकुमारः बाल्ये एव राष्ट्रभक्तिकार्ये आत्मानं नियोज्य नैकानि उत्कृष्टकार्याणि कृतवानासीत् । सत्कार्याणि कर्तुमितोऽप्यधिकतरकालं तेन जीवनीयमासीत् । परं तस्य अकालिकं मरणं कुटुम्बस्य कृते वेदनाजनको विचारः ।   जन्ममृत्यू नियत्यधीनौ इति विचिन्त्य तद्वियोगजवेदनया […]

Continue Reading

जेड्ल गोशालायां दीपावली – गोपूजा कुङ्कुमार्चनञ्च

सुल्य – सुल्यहव्यकवलयेन सम्पाजेग्रामस्य जेड्लपरिसरे स्थितायां गोशालायां नवेम्बरमासस्य नवमदिनाङ्के श्रद्धया भक्त्या च गोपूजनं समाचरितम् ।   गोपूजावसरे मातरः कुङ्कुमार्चनं कृतवत्यः। वैदिकविभागद्वारा ११४ तमं वेदवाहिनीपारायणमपि प्रवृत्तम् । एत्तुकल्लु नारायणभट्टः अरम्बूरु कृष्णभट्टः विश्वकीर्तिजोयिसमहोदयः वेङ्कटेशशास्त्री चेत्येते वैदिकवरेण्याः वेदपारायणम् अन्यधार्मिकविधीन् च प्रावर्तयन् ।   वलयस्य अध्यक्षः सुब्रह्मण्यभट्टः, उपाध्यक्षः विष्णुकिरणभट्टः, कोशाधिकारी ईश्वरभट्टः, कुम्बेत्तिनवन शिवरामभट्टः, उबरड्क सुधीरभट्टः च उपस्थिताः आसन् । […]

Continue Reading

श्रीरामाश्रमे कार्त्तिकदीपोत्सवः – स्वागतं समेषाम्

ज्योतिषां पर्वणः दीपावल्याः समनन्तरमेव कार्त्तिकदीपोत्सवसमुल्लासः आरभ्यते । बेङ्गगलूरुनगरस्य गिरिनगर्यां श्रीरामचन्द्रापुरमठस्य शाखामठे श्रीरामाश्रमेऽपि कार्त्तिकमासस्य दीपोत्सवः नवम्बरमासस्य अष्टमदिनाङ्कतः समारब्ध: ।   सपरिवारश्रीरामदेवसन्निधौ श्रीसंस्थानाधीश्वरणां दिव्योपस्थितौ समारब्धः दीपोत्सवः अयमितःपरमपि श्रीरामाश्रमे प्रतिसायं सम्पत्स्यते । विराजमानेषु दीपनिवहेषु श्रीरामचन्द्रप्रभोः दर्शनं विशिष्टं दिव्यानुभवं जनयति ।   असौ दीपोत्सवः कार्त्तिकशुक्लप्रथमातः (नवेम्बर् – ८) मार्गशीर्षशुक्लषष्ठीपर्यन्तम् (डिसेम्बर् -१३) अनुवर्तिष्यते । दीपोत्सवादिषु पुण्यकरसेवावसरेषु भागं वोढुं समेषामवसरः अस्ति […]

Continue Reading

सुल्यवलये वेदवाहिनी – वेदपारायणं वेदश्रवणं च सम्पन्नम्

सुल्य – सुल्यहव्यकवलयस्य वैदिक-संस्कारविभाग: ११२ तमं ११३ तमं च वेदवाहिनीकार्यक्रमं नवेम्बर् मासस्य द्वितीयदिने अन्वतिष्ठत् ।   ११२ तमः कार्यक्रमः केशवय्यभट्टस्य गृहे अभवत् । तदा यजमान: सकुटुम्बं वेदपठनम् अशृणोत् । घटकग्रामणीः विष्णुकिरणभट्टः उपस्थित: आसीत् ।   तस्मिन्नेव दिने नीरबिदरे वेङ्कटरमणभट्टस्य गृहे सम्पन्ने ११३ तमे कार्यक्रमे यजमान: सकुटुम्बं वेदानुसन्धानम् अकरोत् । नीरबिदरे भक्तवत्सलमहोदयः धन्यभावं प्राकटयत् ।   […]

Continue Reading

हे कृषीवलाः ! भवतां कृषिभूमेः सत्त्वं वर्धयितुं समागतः स्वर्गसारः अयं कृषकाणां कृते गोफलन्यासेन सज्जीकृतः परिपूर्णः जैविकः सारकरीषः

अस्माकं सनातनसाहित्येषु `गोमये वर्तते लक्ष्मीः’ इति निरुक्तं दृश्यते । गोमाता तु यावज्जीवं मानवस्य आश्रयदात्री । गोमयं गोमूत्रं च तस्याः प्रधानयोगदानम् । अस्माकं पूर्वजाः गोमूत्रं गङ्गा इति गोमयं च लक्ष्मीः इति परिगणयन्ति स्म । एतादृशम् आरोग्यकरं पूजनीयं च गोजन्यवस्तु अस्माकं भूमेरन्तः गच्छति चेदेव वयम् आरोग्यपूर्णम् आहारं लभामहे । एवं हि विषमयैः रासायनिकैः अस्माकम् आहारं विमोच्य आरोग्यपूर्णम् […]

Continue Reading

गोस्वर्गे गव्योत्पन्ननिर्माणस्य प्रशिक्षणशिबिरम् ।

उत्तरकन्नडमण्डलस्य सिद्धापुरजनपदे सहस्राधिकगवां स्वच्छन्दसाम्राज्ये सप्तदेवतानां सान्निध्ये गोस्वर्गे कर्नाटकराज्यस्य गोपरिवारस्य आश्रये नवम्बरमासस्य २३, २४, २५ दिनाङ्केषु गव्योत्पन्नानां निर्माणार्थं प्रशिक्षणशिबिरम् आयोजितं वर्तते ।   शिबिरेऽस्मिन् गवां महत्त्वमभिलक्ष्य बोधनेन सह गोमूत्रगोमयादीनि समुपयुज्य आरोग्यं कृषिः प्रकृतिसमृद्धिः इत्यादिषु क्षेत्रेषु अनुप्रयोगयोग्यानां गव्योत्पन्नानां निर्माणविषये प्रत्यक्षविधिना प्रशिक्षणं प्रदीयते । त्रिदिवसीये शिबिरे शिबिरार्थिनां कृते सामूहिकावासभोजनादिव्यवस्थाः प्रकल्प्यन्ते ।   इच्छुकाः नवम्बरमासस्य विंशतिदिनाङ्कात् प्राक् निश्चितशुल्कं प्रदाय […]

Continue Reading

श्रीराममन्दिरनिर्माणविषये श्रीसंस्थानाधीश्वराणाम् अभिप्रायः कः ? वीक्षन्तां श्वः रात्रौ दिग्विजयवार्तावाहिन्याम्

बेङ्गलूरु – श्वः ११.११.२०१८ दिनाङ्के दिग्विजयवाहिन्यां श्रीसंस्थानाधीश्वराणां विशेषधार्मिकसन्दर्शनं प्रसार्यते । रात्रौ ०९.२७ समये दिग्विजयवाहिन्यां श्रीसंस्थानाधीश्वराणां यच्च सन्दर्शनं प्रसार्यते तस्मिन् ते नाना विचारान् अधिकृत्य नैजम् अभिप्रायं प्रकटीकृतवन्तः । प्रामुख्येन देशे सर्वत्र चर्चाविषयभूतं राममन्दिरनिर्माणं देवालयानां सर्वकारीयप्रशासनम् इत्यादीन् विचारान् अभिलक्ष्य श्रीसंस्थानाधीश्वराः मुक्तकण्ठं भाषितवन्तः सन्ति तस्मिन् सन्दर्शने । दिग्विजयवार्तावाहिन्याः सन्दर्शनेन साकं राज्यस्य जनप्रियदिनपत्रिकायां विजयवाण्याम् अस्यैव सन्दर्शनस्य प्रतिवेदनमपि प्रसार्यते । […]

Continue Reading