श्रीरामचन्द्रापुरमठसंरक्षणासमिते: विज्ञापना

समूहप्रार्थना श्रीमठसंरक्षणे कटिबद्धाः गुरुबन्धवः ! श्रीमठस्य संरक्षणाय समस्तसमाजः श्रीरामचन्द्रापुरमठसंरक्षणासमितिरूपेण एकीभूय कार्यं चिकीर्षति इति सर्वविदितम् । अग्रिमेषु दिनेषु समितिपरतया समायोज्यमानेषु श्रीमठसंरक्षणासत्कार्येषु भगवदनुग्रहं प्राप्तुं देवसान्निध्ये सामूहिकप्रार्थना विधेया वर्तते । अतः १०-११-२०१८ तमे दिने शनिवासरे श्रीमठस्य शिष्यव्याप्तेः सर्वेषु घटकेषु श्रीरामचन्द्रापुरमठसंरक्षणाप्रार्थनायाः समर्पणाय योजना कृता । घटकान्तर्गताः शिष्यास्सर्वे समाजे विद्यमानाः श्रीमठाभिमानिनश्च मिलित्वा कार्यमिदं सम्पादयन्तु इति विज्ञापयामः । इयं सामूहिकप्रार्थना अस्माकम् […]

Continue Reading

मुहुर्महाबलो मठस्य – सर्वोच्चन्यायालयस्य आदेशम् अन्वतिष्ठत् कर्नाटकसर्वकार: – श्रीहालप्पमहोदयेन हस्तान्तरप्रक्रिया

भारतदेशस्य सर्वोच्चन्यायालयस्य आदेशानुसारं कर्नाटकसर्वकारः अद्य श्रीमहाबलेश्वरदेवालयस्य प्रशासनाधिकारं श्रीमठं प्रति हस्तान्तरं कुर्वन्नस्ति । श्रीमहाबलेश्वरसन्निधौ श्रीमठस्य प्रतिनिधि: श्रीमान् जि. के. हेगडे महोदय: श्रीहालप्पमहोदयेन प्रशासनाधिकारं स्वीकुर्वन् वर्तते |

Continue Reading

उरुवालुग्रामे अन्वर्थराज्योत्सवस्य आचरणम् – आङ्ग्लमाध्यमछात्रेभ्यः कन्नडपाठः – भाषां रक्षत राज्यं वर्धयत इत्यवोचन् गण्याः

उरुवालु – अत्रस्थायां श्रीभारतीविद्यासंस्थायां कन्नडराज्योत्सवम् अर्थपूर्णरीत्या आचरितवन्तः। नवम्बरमासे प्रथमे दिनाङ्के सानुदानोच्चप्राथमिकशालायाः आङ्ग्लमाध्यमशालायाश्च सहयोगेन सञ्चालितं राज्योत्सवकार्यक्रमममुं विद्यार्थिनः राज्यगीतगानपूर्वकं प्रारभन्त। राज्योत्सवाचरणस्य मूलकारणभूतायाः कर्नाटकस्य एकतायाः विषये विद्यासंस्थायाः मुख्यशिक्षिका श्रीमती जयलक्ष्मीः, सहशिक्षिका श्रीमती कमरुन्नीसा, श्रीलक्ष्मणगौडः च विवरणं दत्तवन्तः । शालासंसदः विरोधपक्षस्य नायकः कार्तिकः राज्योत्सवस्य महत्त्वम् अगदत् । उभयशालायाः छात्राः कर्नाटकराज्यस्य अवनिवनजलादीनां महत्त्वप्रतिपादकानि गीतनि अगायन् । शालायाः प्रशासनसमितेः अध्यक्षः श्रीमान् […]

Continue Reading

श्रीरामाश्रमे सङ्गीतसेवा

बेङ्गलूरु – फलपुष्पादिभिः यथा भगवन्तं सेवन्ते तथैव सङ्गीतकलाकारः श्रीरघुनन्दनबेर्कडवुमहोदयः श्रीकरार्चितदेवतानां सान्निध्ये स्वगानसुधया सेवां समार्पयत् । गुरुवासरे (०१-११-२०१८) गिरिनगरस्थे श्रीरामाश्रमे सः महोदयः कर्णाटकशास्त्रीयसङ्गीतकार्यक्रमं देवसन्निधौ समर्पितवान् । नाट-रागादारभ्य बहुदारी, देवगान्धारी, रीतिगौल, दर्बार, पन्तुवराली, कानड, सिन्धुभैरवी, दुर्गा, मिश्रपहाडी, मोहन, कल्याणी, सौराष्ट्ररागान् च गीत्वा श्रीरामस्य सन्निधौ नैजां कलासेवामकरोत् । श्रीसंस्थानाधीश्वराणाम् आशीर्वादेन सूचनया च श्रीरघुनन्दनमहोदयः एतादृशसङ्गीतसेवामाध्यमेन सेवां कृत्वा भगवतः कृपाभाक् […]

Continue Reading

मातापित्रोः पादपूजामकुर्वन् बालाः – संस्कृतेः परिचयाय अभूद्विशिष्टः कार्यक्रमः

बेङ्गलूरु – बालकेषु संस्कारवपनार्थं जन्मदात्रोः महत्त्वज्ञापनाय च श्रीरामाचन्द्रापुरमठस्य अङ्गसंस्थायां श्रीभारातीविद्यालये मातापित्रोः पूजनमिति विशिष्टः कार्यक्रमः समायोजितः । कन्नडराज्योत्सवस्य शुभदिनेऽस्मिन् पादप्रक्षालनपूर्वकं पितरौ पूजितवन्तः बालाः । आजीवनं पित्रोः परिपालनं सगौरवं सादरं च कुर्मः इति शपथग्रहणं च ते अकुर्वन् । विनश्यन्त्याः भारतीयसंस्कृतेः रक्षणार्थं बालकेषु अस्माकं संस्कृतेः सम्प्रदायस्य च विषये ज्ञानमुत्पादयितुं च परमपूज्यानां श्रीसंस्थानाधीश्वराणां दिव्यमार्गदर्शने कार्यक्रमोऽयं समायोजितः आसीत् । मातापितृपूजातः […]

Continue Reading

गोभ्यो ग्रासः – श्रमदानद्वारा विभिन्नं कार्यम् – अमृतधारागोशालायै गोप्रेमिणां साहाय्यम्

गोभ्यो ग्रासः – श्रमदानद्वारा विभिन्नं कार्यम् – अमृतधारागोशालायै गोप्रेमिणां साहाय्यम् कासरगोडु – कासरगोडुजनपदस्य पेर्लप्रदेशस्य बजक्कूड्लुग्रामस्य अमृतधारागोशालायां स्वयम्प्रेरितश्रमदानेन अपूर्वरीत्या गोभ्यो ग्राससमर्पणकार्यक्रमः प्राचलत् । कुम्बलेवलयस्य सीतङ्गोलिग्रामस्य हमीद् नेल्लिकुन्नु महाभागस्य केदारस्थले सार्द्रतृणानि वर्धितानि आसन् । मुल्लेरिया हव्यकमण्डलस्य चन्द्रगिरिवलयस्य गोप्रेमिणः तेषां तृणानां सदुपयोगकरणार्थं तृणानि कर्तयित्वा तानि वाहनसाहाय्येन बजक्कूड्लु – अमृतधारागोशालां प्रैषयन् । श्रीरामचन्द्रापुरमठस्य मुल्लेरियामण्डलस्य विद्यार्थिवाहिनीप्रधानः केशवप्रसादः एडक्कान, कुम्बलेवलयाध्यक्षः बालकृष्णशर्मा, […]

Continue Reading

शनिवासरे श्रीरामाश्रमे `रामपदम्’ सत्सङ्गः

बेङ्गलूरु – एकादश्यां हरिदिने श्रीसंस्थानाधीश्वरैः प्रचाल्यमानं रामपद्यानां गानव्याख्यानानुसन्धानात्मकं रामपदम् इत्याख्यः सहजसत्सङ्गकार्यक्रमः शनिवासरे (०३-११-२०१८) सायङ्काले षड्वादनतः अष्टवादनपर्यन्तं प्रचलिष्यति । गिरिनगरस्य श्रीरामाश्रमे यथापूर्वं प्रचाल्यमाने अस्मिन् रामपदकार्यक्रमे श्रीसंस्थानाधीश्वराः रामपदे समुपविश्य श्रीरामसम्बन्धीनि पद्यानि गायन्तः श्रीरामचन्द्रप्रभोः गुणविशेषान् परिचाययन्तः सत्सङ्गसभां प्रवर्तयिष्यन्ति । अस्मिन् रामपदकार्यक्रमे हिन्दूस्थानीसङ्गीतक्षेत्रे उदयोन्मुखः गायनः सिद्धार्थः बेल्मण्णु भागी भविष्यति । कलारामविभागेन आयोज्यमानेऽस्मिन् विशिष्टे कार्यक्रमे भवन्तः सर्वे भागमूढ्वा श्रीरामचन्द्रस्य कृपाभाजः […]

Continue Reading

अस्य मासस्य धर्मभारत्याम्

भारतीयानां मनांसि भगवद्भक्तिद्वारा स्थिरीकृत्य सम्प्रदायानां परम्पराणां च संरक्षणे संवर्धने च श्रीत्यागराजयोगिनः योगदानम् अपारम् । तैः विरचितानाम् उत्सवसम्प्रदायकीर्तनानां विषये काञ्चन रोहिणी सुब्बरत्नं महाभागायाः सविस्तरं लेखनम् । `एताद्राज्यमधिकृत्य वद हे पितामहि !’ इति राजावदत् । `तन्न त्वया प्रष्टव्यं मया नोक्तव्यं च’ इति पितामही अगदत् । कथा का पितामह्याः राज्यस्य ? श्रीगोपालकृष्ण कुण्टिनि महाभागस्य कथायाम् । दिव्यसन्निधौ श्रीसंस्थानाधीश्वराणां […]

Continue Reading

श्रीरामाश्रमे सपरिवारश्रीरामचन्द्रदेवप्रतिष्ठापनावार्षिकोत्सवः सम्पन्नः

बेङ्गलूरु – श्रीरामचन्द्रापुरमठस्य शाखामठे गिरिनगरस्थे श्रीरामाश्रमे सपरिवारस्य श्रीरामचन्द्रप्रभो: प्रतिष्ठापनावार्षिकोत्सवः श्रद्धाभक्तिवैभवेन सुसम्पन्न: । श्रीसंस्थानाधीश्वराणां दिव्योपस्थितौ तेषां मार्गदर्शने च विलम्बसंवत्सरस्य आश्वयुजकृष्णषष्ठ्यां सप्तम्यां च (३०.१०.२०१८, ३१.१०.२०१८) नैके धार्मिककार्यक्रमाः समनुष्ठिताः ।   मङ्गलवासरे श्रीगुरुप्रार्थनेन सह समारब्धेषु धार्मिककार्यक्रमेषु श्रीगणपतिपूजादेवनान्दीपुण्याहवाचनकौतुकबन्धनध्वजारोहणबलिकर्माणि च समाचरितानि । सायङ्काले रङ्गपूजाशिबिकोत्सवाष्टावधानसेवाः सम्पन्नाः । शताधिकाभक्ता: भगवतः शिबिकोत्सवे भागमूढ्वा कृतार्थाः अभवन् ।   अपि च सांस्कृतिककार्यक्रमाणामङ्गत्वेन यक्षर्षिहोसतोटमञ्जुनाथभागवतरविरचितस्य `गोमये वसते […]

Continue Reading